________________
२२४
काव्यमाला।
अन्तर्गतया तदुरः पीडितमेव त्वयैव पूर्वमपि । अधुनापि पौनरुक्त्याबहिर्गता हि पीडय न दोषः ॥ ८९ ॥ इति रचितवाचि तस्यामश्यामलचरितया तयोक्तमिदम् । दूति बिभेमि स भेद्यो गन्धर्वैः पञ्चभिः पतिभिः ॥ ९० ॥ इत्यफलीकृतमस्या वाचां पटलं तदेकवचनेन । मलिनतमममलरुचिना गृहमणिना तिमिरजालमिव ॥ ९१ ॥ इति गतया दूतिकया तस्या वचने यथातथे कथिते । नलिनतलिनस्थितोऽप्ययमतीव सेमवाप कीचकस्तापम् ॥ ९२ ॥ एटेहि वल्लभे लघु विनय कपोलाद्धनाञ्जनं बाष्पम् । इति स जगौ मृगलाञ्छनमागच्छन्मालिनीसुखभ्रान्त्या ॥ ९३ ॥ दैववशेन स्वप्ने सैरन्ध्रीमेकवेलमासाद्य । स पुनर्मीलितनयनः सुष्वाप प्राप न पुनस्ताम् ॥ ९४ ॥ धातस्तात तवासनसरोजसंकोचहेतुरयमिन्दुः । कुरु राहोर्वपुरखिलं गिलितो न यथा पुनरुदेति ॥ ९ ॥ शंकर किं करवाणि त्वमेव देवः सदा मया महितः । वहसि किमु शिरसि चन्द्रं न दहसि पुनरप्यमुं कामम् ॥ ९६ ॥ इति विकलवचनरचनापरिचयविधुरीकृताखिलवजनः। गमयामास तमिस्रां कष्टमसौ कल्पशतकल्पाम् ॥ ९७ ॥
(विशेषकम्) मद्यकृते सच्छलया तद्वत्सलया सुदेष्णया बलतः। - सैरन्ध्री दुर्नयभयविहितनिषेधाप्यथ प्रहिता ॥ ९८ ।। तरणिं विधाय शरणं कीचकसदनाय तदनु सायाह्ने । कृष्णा चचाल तस्यां रक्षायै राक्षसं व्यदादर्कः ॥ ९९ ॥ तस्या विलोक्य वदनं सदनं भासां स चन्द्रबिम्बमिव ।
उद्धान्तो जलधिरिव द्विगुणोच्छलदच्छहर्षोमिः ॥ १० ॥ १. 'विरतायां' ख-ग. २. 'तमसाप' ख. ३. 'मुहुर्मी' ख-ग. ४. 'सदोमया स. हितः' ख.