________________
२०६
काव्यमाला ।
आहूय नूपुरारावैः शिक्षयन्तीव तद्विरा । कृष्णालीलागतिस्तत्र मरालीनामभूद्गुरुः ॥ ४ ॥ कृष्णलीलोक्तिमाकर्ण्य मधुरां वनदेवताः । उद्यन्मधुधिया तत्र सदापुः संभ्रमान्मुदम् || १ || ऋतूपयुक्तपुष्पस्रग्वती तत्र कृता प्रियैः । अलंचकार कान्तारं कृष्णा वल्लीव जङ्गमा ॥ ६ ॥ इह तैर्विहितानेक विनोदैरिन्दुनन्दनैः । इत्येकादशमुत्कर्षवद्भिर्वर्षमनीयत || ७ || मृगयायै गतोऽन्येद्युर्महाकार्यमलोकयत् । किंचिद्वृकोदरः काकोदरं कन्दरगं गिरेः ॥ ८ ॥ कीनाश नागरी लोहप्राकाराकारविग्रहम् । ययौ तं निकषा भीमः कुतूहलितकौतुकः ॥ ९ ॥ दशमद्वारनिर्धूतक्रोधानलसदृमणिः । सोऽप्यधावत दुःप्रेक्ष्यः प्रेक्ष्य भीमं भुजङ्गमः ॥ १० ॥ मुखोदरस्फुरत्कालदोःकल्परसनायुगम् ।
तं हन्तुमुद्गदभुजः क्रुधा भीमोऽप्यधावत ॥ ११ ॥ तत्फूत्कृन्मारुतेनैव पातिता मारुतेर्गदा । द्विषद्वर्ती द्विद्वृत्तिं स्वजनोऽपि हि गच्छति ॥ १२ ॥ दोर्दण्डेनैव संहर्तुं प्रवृत्तोऽथ वृकोदरः । आपादकण्ठमावेष्टि स्वेन भोगेन भोगिना ॥ १३ ॥ महाबलयुजानेन बद्धो धुन्वन्वलाद्वपुः । महाबलसुतोऽप्येष नासीन्निर्गन्तुमीश्वरः ॥ १४ ॥ अथोत्पातैरिहायातो भीमं भोगिनियन्त्रितम् । धर्मसूर्मृत्युसर्वाङ्गालिङ्गिताङ्गमिवैक्षत ॥ १५ ॥ भोगिलः क्व भीमैनत्कोऽप्ययं कोपितः पुरा । ध्यात्वेत्यूचे नृपो नागं कस्त्वं बद्धस्तथैष किम् ॥
१६ ॥
१. 'मलोकत' ग. २. 'मृति' ख ग . ३. 'भोगी मल्लः क भीमैस्तत्' ख; 'भीमैतत्'ग, ४. 'सुरः' ख-ग.