________________
२०२
काव्यमाला ।
चन्दनद्रवभरैरपि भीष्मग्रीष्मतापचकितैरिव कामम् । स्फीततत्समयशीतगुणेषु स्त्रीजनस्तनतटेषु विलेसे ॥ १२ ॥ तैस्तदा जगदिदं शुचिजातैः पर्यतापि परितः परितापैः । । नो निशा व्यलसदत्र यथोडुद्योतचन्दनधरापि चिराय ॥ १३ ॥ नूतना दिवि तपात्ययभूभृद्वाटिकेव तरला जलदाली । अभ्युपेत्य तपभूरिविभूतिं लुम्पति स्म मुहुरुष्णमरीचिम् ॥ ५४ ॥ छाद्यमानमहसं सहसा वीक्ष्य नव्यजलदैर्मुदितेव । उल्ललास वसुधा नवदभैरुत्पपात पयसा नदरानिः ॥ ५५ ॥ उद्यतं शुचिजयाय वयस्यं तोयवाहमवलोक्य नॅटद्भिः । स्फारितस्फुटसदृक्षशिखण्डैः क्षोणिमण्डलममण्डि मयूरैः ॥ १६ ॥ श्यामतां वहतु वारि कठोरं वक्तुमार्कविभवं हरतां वा । तद्ददौ किमपि वारिधरस्तु प्रीणितानि बत येन जगन्ति ॥ १७ ॥ तैर्घनाघनघटापरिघट्टैः खण्डितस्य दिवि चण्डमरीचेः । खण्डमण्डलममण्डयदाशामण्डली चलतमोमणिमूल् ॥ ५८ ॥ धूमयोनिरुदितः कृतवासं खं पितामहमरण्यमहीषु । पावकं दलयति स्म हहा धिग्दुर्विवेकमुदयं मलिनानाम् ॥ ५९॥ पाण्डवैर्दुपदजावदनेन्दुज्योत्स्नया कृततमःशमनेषु । अप्रदत्तजलदाम्बुलवेषु क्रीडितं गिरिगुहान्तगृहेषु ॥ ६ ॥ यूथिकाकुटजकेतकजातीनीपपुष्पकृतपञ्चशरश्रीः । आततान मकरध्वजवीरः सज्जतां त्रिजगतीविजयाय ॥ ६१ ॥ वृष्टितो विरमतापि कदाचित्तुष्टयेऽनुसरतां पतगानाम् । अम्मुचा मुमुचिरे जललेशास्तुङ्गपादपदलेषु गलन्तः ॥ १२ ॥ गन्धलीनमधुपैररुणत्वं धारयद्भिरभितोऽपि शिलीन्धैः । भूषिता मरकतोपनमित्रै रत्नभूषणगणैरिव भूमिः ॥ ६३ ॥
१. 'स्तथा' ख. २. 'वियदाली' क. ३. 'महसा' क. ४. 'नदद्भिः ' क. ५. 'स्फुर' क. ६. 'व नयेन' क-ख. ७. 'कृपया स' ख.