SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १९४ काव्यमाला । तत्फूत्कार बलात्तदा स्फुटितवत्यद्रीन्द्रवृन्दे गुहाविद्धे व्योमनि तत्तनूरुहमुखैछिद्राणि कक्षच्छलात् ॥ ६२ ॥ कृतं तत्तेजोभिः किमपि रथपृष्ठे प्रसृमरं स्वबिम्बस्य छायावलयमवलोक्य द्युतिपतिः । त्रसन्राहुभ्रान्त्या समुपहसितो दूरगतिना मृगाङ्केण स्वाभिः सह सहचरीभिः खलु तदा ॥ ६३ ॥ कर्णनासाननच्छिद्रैः पञ्चग्रासीकृताम्बरः । सबभौ ब्रह्मचारीन्द्रः कपीन्द्रो मेहतां मुदे ॥ ६४ ॥ अदर्शि दर्शनीयं ते रूपं कपिकुलोत्तम । भाति यद्वर्णने दीना मुनीनामपि कापि वाक् ॥ ६५ ॥ मानहीनस्तवाकारप्रासादः स्वर्धुनीध्वजः । तमेकादशरुद्र द्राग्मुञ्च चञ्च सतां हृदि ॥ ६६ ॥ कौन्तेयमिति जल्पन्तं द्रागल्पितवपुः कपिः । आलिलिङ्ग च सानन्दबाष्पो मूर्ध्नि चुचुम्ब च ॥ ६७ ॥ ऊचे च त्वमभीतो मद्रूपं भीतेन्द्रमैक्षथाः । उत्तारणीयमात्मानं त्वद्धैर्यस्योदधेर्मुदा ॥ ६८ ॥ अद्यापि सिंहनादस्ते मन्नादेन विमिश्रितः । भविता वैरिमर्माविद्विषलिप्तशरो यथा ॥ ६९ ॥ स्वयं रणक्षणे स्फूर्जन्नर्जुनस्यन्दनध्वजे । करिष्ये बाढफूँत्कारैर्गतबोधान्विरोधिनः ॥ ७० ॥ इत्युक्त्वास्मिन्नदृश्यत्वं हनूमति गते सति । भीमस्याभूत्तदा दुःखप्रमोदरससंकरः ॥ ७१ ॥ ततो निशातधीः शातकुम्भरम्भावनावनौ । हेमपद्मनदीयोगि सोऽगात्सौगन्धिकं वनम् ॥ ७२ ॥ १. 'तद्बुकार' ख; 'तद्दुत्कार' ग. २. 'मरुतां' ग. ३. 'सागू' क. ४. 'त्वद्वीर्यस्या ' ग. ५. 'दधे मुदा' ग. ६. 'बूकारे' ख; 'बूत्कारै' ग. ७. 'स्वमोदरस' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy