________________
३वनपर्व-२सर्गः] बालभारतम् ।
मोऽस्यमर्त्यदेशोऽयं निवर्तस्व किमत्र ते । सुखं निद्रां करोम्येष सुखं जीवन्तु जन्तवः ॥ १२ ॥ निजं कुलं च कार्य च प्रथयित्वा पृथासुतः । ययाचे वैरिमन्थानः पन्थानमथ वानरम् ॥ १३ ॥ ऊचे कपिरपि स्वात्मज्ञानाच्चेन्मां न लङ्घसे ।। तद्गच्छ पुच्छमुत्क्षिप्य रुग्णोऽहं चलनाक्षमः ॥ १४ ॥ नात्मवाल्लङ्घनीयः स्यादस्य पुच्छमुदस्य तत् । इतो यामीति भीमस्तदुत्क्षेप्तुमकरोत्करौ ॥ १५ ॥ अक्षमः स तदुत्क्षेप्तमहं दृष्टोऽस्मि केनचित् । इति दिक्षु क्षिपन्नक्षि कपिना तेन भाषितः ॥ १६ ॥ लज्जथा मास्म सामीरे यदहं भवदग्रजः । वत्स त्वदर्शनोत्कण्ठी प्राप्तः श्रीरामकिंकरः ॥ १७ ॥ अथानन्दपरिस्पन्दस्यन्दमानवमानसः । बकारिः शिरसि न्यस्य पाणी वाणीमिमां जगौ ॥ १८ ॥ मायालघुमपि प्रेक्ष्य त्वां प्रीतोऽस्मि दृढं प्रभो।
अतिप्रीणय मामब्धिजयोग्रस्फूर्तिमूर्तिभृत् ॥ १९ ॥ कल्पान्तक्रमवर्धितानलभयभ्रान्तद्युसद्दानवं
रुक्मच्छन्नशिरःकिरीटतिलकग्रीवामणिद्योमणि । रामस्तोमशिखातिखर्वितनगं निःसीम भीमस्तदा
पश्यद्रातुरकातरेण मनसा तद्वर्धमानं वपुः ॥ ६० ॥ नासाश्वासवशोदरागतमुहुर्यातोडुजातो मुख___ श्वासव्यास लोन्नतक्षितिधतिव्यग्रोरगग्रामणीः । अङ्गव्याप्तिसमाप्तसप्तभुवनो नाक्ष्णापि वक्षश्युत
खेदाणःकणवर्णमर्णवमसावैलिष्ट किं लेवताम् ॥ ६१ ॥ तत्पुच्छाहतिनिम्नभूतलपथं पाथोभवन्निम्नगा
__ स्तच्छासा जलधेर्गतैरित इतोर्णोभिश्च सप्तार्णवाः । १. 'लजता' ग. २. वने' ख. ३. 'छत्र' क-ख. ४. 'तलो' क. ५. 'वर्ण्यतां' ग.