________________
२सभापर्व-५सर्गः] बालभारतम् । . १७१
रजस्खला संसदमेकवासा विकञ्चुकानेन शठेन नीता । सरोषरूक्षं कृपणं च चक्षुस्त्रपानतेषु न्यधित प्रियेषु ॥ ३७ ॥ जितासि किं दासि विलोकसेऽमून्दुर्योधने निक्षिप मङ्ख चक्षुः । दुःशासनेनेत्यभिलोडितासौ सती नमस्कृत्य गुरून्बभाषे ॥ ३८ ॥ विष्णोः सखी पार्षतभूपपुत्री पाण्डोर्धरित्रीकमितुर्वधूटीम् । दासीति किं मामयमाह धर्म विचार्य वार्यः कुमतिर्भवद्भिः ॥ ३९ ॥ भीष्मो बभाषेऽथ तवाभिभूत्या कुलक्षयं चेतसि चिन्तयन्तः । वत्से वयं मूढहृदो न विद्मस्त्वत्प्रश्नमप्यादृतधर्मशास्त्राः ॥ ४० ॥ द्यूते जितास्माभिरसौ न वेति दुर्योधने पृच्छति धर्मतत्वम् । सभ्येषु भीत्या खलु यद्वदेषु प्रोचे विकर्णो धृतराष्ट्रसूनुः ॥ ४१ ॥ सभ्या भयं किं भवतां विभाव्य धर्मक्रमं ब्रूत यथार्थमेव । जितेन राज्ञा पणिता जितासौ न स्याद्भुवं पञ्चवशा हि कृष्णा ॥४२॥ इत्यस्य वाक्यं चिरमभ्यनन्दन्सभ्या नृपः किं तु रुषाभ्यधत्त । विकर्ण नो वेत्सि जितैव कृष्णा प्राक्क्लप्तसर्वस्वपणेन साकम् ॥ ४३॥ अस्त्राणि वस्त्राणि च पाण्डवानां जितानि च स्वीकुरु को विलम्बः । पञ्चप्रियायाः प्रसभादसत्या गृहाण वासश्च विचित्रमस्याः ॥ ४४ ॥ अनेकभार्यापि महत्त्वपात्रं या गीयते गौरिव राजतेऽसौ । वासस्तदस्या रभसेन कर्ष गावोऽधिकं भान्ति विनांशुकेन ॥ ४५ ॥ इत्यस्य वाक्यादपि पाण्डुपुत्रा मुक्तोत्तरीयाः सदसि व्यराजन् । समुज्झिता शारदवारिदौधैः कराः खरांशोरिव विस्फुरन्तः ॥ ४६ ॥ विचित्रवीर्याङ्गजनिर्विशेष सभाजने तत्क्षणमीलिताक्षे । दुःशासनः शासनतोऽङ्गभर्तुश्चकर्ष चीरं द्रुपदाङ्गनायाः ॥ ४७ ॥ कुतूहलोत्तानहताशनेत्रैरपूर्णवाछै रिपुभिरूपि । आविर्भवन्नूतनमेव वासस्तद्रूपमाच्छादितरूपमस्याः ॥ ४८ ॥ यथा यथासौ वसनं चकर्ष तथा तथा सूज्ज्वलमाविरासीत् । नवं नवं तत्र सुवृत्तभाजि जवेन वाप्यामिव वारि हारि ॥ ४९॥ १. 'सभ्यान्' क.