________________
१७०
काव्यमाला।
निवेद्य वृत्तान्तमथामुनेयमाहूयमानेति जगाद कृष्णा । खं हारयित्वा पणितां नृपेण जेता जयेत्तामिति पृच्छ सम्यान् ॥२४॥ इत्युक्तिमागत्य वदत्यमुष्मिन्दुर्योधनो द्रागनुजं न्ययुत । समानयैनामजयं जयं वा सभ्यान्स्वयं पृच्छतु संसदीति ॥ २५ ॥ एोहि दासी त्वमसीति कोपादःशासने जल्पति तत्र याते । अन्तःपुरान्तः कुरुपुंगवस्य गन्तुं प्रवृत्तातिभयेन कृष्णा ॥ २६ ॥ क यासि दासि त्वमिति क्रुधान्धो वदन्ननूत्पत्य कंचे गृहीत्वा । चकर्ष कृष्णामधमोऽयमात्मद्रोही स्वकानामिव कालरात्रिम् ॥ २७ ।। स्त्रीधर्मनिर्मापितपारवश्यां मां मेति कषेति शनैर्वदन्तीम् । इमां विशेषात्स चकर्ष हर्षपरः किमुद्भान्तहृदामकृत्यम् ॥ २८ ॥ गृहीतदुर्योधनशासनेन दुःशासनेन प्रसभेन कृष्टाम् । आलोक्य तां तत्कुलकालवह्निधूम्यामिवाकम्पत राजलोकः ॥ २९ ॥ देवव्रतद्रोणकृपेषु कोऽपि स्वेदः कुलैकक्षयसूचकोऽभूत् । समाजनः किं च चकार हाहाकारस्वरैकार्णवमन्तरिक्षम् ॥ ३० ॥ अधोमुखो निःश्वसितप्रवाहसंप्लाव्यमानोदररोमराजिः । तत्कर्म पश्यन्विदुरो दुरन्तं शिरो धुनीते स्म धृतं कराभ्याम् ॥३१॥ इह क्षणेऽप्यस्फुटितं स्फुटाश्मरूपं स्मरन्तः स्वमुरो नरेन्द्राः । दुःखानलप्लष्टमतीव चूर्णीकर्तुं जलग्गलितैरसिञ्चत् ॥ ३२ ॥ महीभुजां कौरवपक्षभाजां मुखेष्वराजन्त महाट्टहासाः। आसन्नसंभावितजीवितव्यप्रयाणभेरिप्रणदप्रकाशाः ॥ ३३ ॥ . तां वीक्ष्य भीमः कुपितो बभाषे युधिष्ठिर द्यूतकरौ करौ ते । धक्ष्यामि साक्षात्सहदेव वहिं यच्छेति कोपे सति को विवेकी ॥३४॥ ऐन्द्रिस्तमाचष्ट चिराद्विवेकनिधेर्धियस्ते किमुपप्लवन्ते । अस्मान्विभुः क्षत्रधृतव्रतो यदहारयद्भीम यशस्करं तत् ॥ ३५ ॥ इत्यर्जुनोक्त्या शमभाजि भीमे दुःशासनः संसदमानिनाय । तां याज्ञसेनी प्रसभादकीर्तिप्रतानिनीकन्दलवत्कुरूणाम् ॥ ३६ ॥ १. 'कचैप्' क-ग. २. 'स्वमनो' क. ३. 'नलक्लिष्ट' क. ४. 'जीवितस्य' ख.