________________
१६२
काव्यमाला |
मुक्तद्युगतयोऽभ्यस्तुं भुवि लीलागतीरिव । वसन्ति यत्र रम्भोरुदम्भाद्रम्भादिदेवताः ॥ ३१ ॥ मिथुनैौधै मिथोरूपनिरूपादनिमेषिभिः । दिव्यैरिवागतं दैत्यभीतैर्यत्रा कुतोभये ॥ ३२ ॥ मन्ये यच्चन्द्रशालानां नामाभूदमरावती । यद्भूमिगर्भगेहानां नाम भोगवती पुनः ॥ ३३ ॥ रत्नोर्व्या कन्दुकभ्रान्त्या धावन्तः सह वालिना । येsपि रविबम्बेन सीमां यान्ति यदर्भकाः ॥ ३४ ॥ बाला यत्सौघमालासु नक्तमेणाङ्कमण्डले । पाणि क्षिपन्ति जानन्त्यो रजताञ्जनभाजनम् ॥ ३५ ॥ यत्प्रासादास्तथाभूतस्वाभोगग्रस्तमम्बरम् ।
उद्गिरन्ति सदा धूतधूपधूमावलिच्छलात् ॥ ३६ ॥ ध्वजरक्षा भुजङ्गेशभाजो यद्देवेश्मसु । कुम्भाः कारयितुः पुण्यनिधिकुम्भा इव स्फुटाः || ३७ ॥ भान्ति यत्रोदवीथीषु कल्याणरजतच्छलात् । साम्राज्यदीक्षितन्याय तेजः कीर्तिचया इव ॥ ३८ ॥ जलैर्यत्केलिवापीनां स्यन्दिभिर्भूमिभेदिभिः । सुधाकुण्डावली नूनं जाता पातालपातिभिः ॥ ३९ ॥ दानदीक्षागुरूणां यज्जनानां मणिपादुकाः ।
नूनं कल्पद्रुमा मूर्ध्नि वहन्ते पल्लवच्छलात् ॥ ४० ॥ कवीनां रसनालोलदोलाकेलिरसस्पृशः ।
वाग्देव्या यत्र दासीव श्रीः पुरः स्फुरति स्फुटम् ॥ ४१ ॥ शेषोऽपि द्विसहस्राक्षरसनस्तत्पुरश्रियम् ।
वीक्ष्य वीक्ष्य स्वयं वक्तुं शक्तो भवति वा न वा ॥ ४२ ॥ वसंस्तत्र मणिश्रेणिनद्धसौधास्ततामसे ।
रवेरुदयमस्तं वा न वेत्ति सुखितो जनः ॥ ४३ ॥
१. ' दीक्षितस्यास्य जेयत्कीति' क.