________________
२सभापर्व-४सर्गः] बालभारतम् ।
स मत्वेत्थमथाहूय नृपतिः सुतमब्रवीत् । आश्रयोऽपि श्रियो वत्स किमिन्दुरिव सीदसि ॥ १८ ॥ दूरनिर्मुक्तकौन्तेयाः समुच्चेयाः पदे पदे । किं तात रमयन्ति त्वां नैताः पैतामहश्रियः ॥ १९ ॥ वचोनासीरतानीतस्फीतनिश्वसितानिलः । गान्धारीनन्दनो दैन्यसगद्गदमथावदत् ॥ २० ॥ कौन्तेया इव नूयन्ते क्षत्रियाः वार्जितश्रियः । श्रीर्मुदे वणिजां पैतामही तात महीयसी ॥ २१ ॥ पाण्डवैः खाण्डवप्रस्थमर्जिताभिर्विभूतिभिः । तथाभूषि यथेहाभूद्वस्तुं वास्तोष्पतेः स्पृहा ॥ २२ ॥ स्फुरति स्फाटिकस्तत्र प्राकारो रक्षितुं निधीन् । कुण्डलीन्द्र इव स्वभ्रात्परिखापथनिर्गतः ॥ २३ ॥ गुरुणा यस्य वप्रेण दत्तेव जपमालिका ।। माणिक्यकपिशीर्षालिफ्रेम्नाधारि तमोभिदे ॥ २४ ॥ नभोमरकतादर्श भान्ति यत्परिखोर्मयः । संक्रान्ता इव वप्रान्तचलकेतनकैतवान् ॥ २५ ॥ प्रवेशेनैव यद्वप्रे स्खलितस्य नभस्वतः । सफलं मेनिरे मारविवराणां (१) जनुर्जनाः ॥ २६ ॥ चतुर्भिस्तोरणामुक्तमुक्तास्रग्दशनैर्मुखैः । चतुर्दिग्लोकपालानां पुराणि हसतीव यत् ॥ २७ ॥ अपराह्ने नमन्नर्कस्तय॑ते यद्वहिर्जनः । वप्राग्रासमानकमाणिक्यकपिशीर्षवत् ॥ २८ ॥ वसन्तमन्तर्दिवसं रत्नवेश्मविभानिभात् । यत्राराममयो वप्रो बहिन्तिं सदारुधत् ॥ २९ ॥ न मामसावसौ वेत्ति वेत्तीह युवमध्यगम् ।
हरः सोऽपीति निर्भीतिर्यत्रानङ्गोऽपि रङ्गति ॥ ३० ॥ १. 'स्वय' ग. २. 'सूयन्ते' क. ३. 'स्फुरितः' क.
२१