SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १५६ काव्यमाला। तत्प्रदेयमणिपूर्तये पंयोनाथमाथहृदयस्तदा हरिः । मन्दरभ्रमिसुखं विलेक्षिपद्यद्विरोचनसुतं शुशोच तत् ॥ ४५ ॥ कम्पभृगृहमणिर्नभोमणिस्तापवान्कलुषहृन्निशामणिः । वस्त्रदानचकितः शुचाभवत्तत्र यच्छति नवच्छवीन्मणीन् ॥ ४६॥ पात्रमेष वसुभिर्यथोन्नतं रागभृद्भिरभिपूरयन्क्रमात् । सर्वतोऽप्यवनिमप्यपूरयत्प्रातरभ्युदयवानिवार्यमा ॥ ४७ ॥ स्थापयन्पृथु यथा दरिद्रकं वित्तमेष निखिलेऽपि भूतले । एकरूपमसृजद्यथा यथा निम्नमम्बु घटयन्धनाघनः ॥ ४८ ॥ आयुगान्तकुलभृद्भिरक्षयैरर्थिनां निधिगतैस्तदर्पितैः । रत्नराशिभिरनन्तया रजोगर्भयाप्यजनि रत्नगर्भया ॥ ४९ ॥ खं तथादित स पार्थिवो यथा संजगुर्दिवि बिले च याचकाः । स्वर्युधिष्ठिरममर्त्यपादपं पन्नगालययुधिष्ठिरं बलिम् ॥ ५० ॥ ऐक एव शुचि मन्युरित्यसौ भूरधःकृतविरोचनात्मजा । अङ्गुलीमिव चषालमुद्रिकामुद्रितं सपदि यूपमौर्ध्वयत् ॥५१॥ भूमिपातुरथ पात्रमत्र तत्संसदि प्रथममर्हणोचितम् । पृच्छतः क्रतुमहे पितामहः संभ्रमादिति बभार भारतीम् ॥ १२ ॥ शक्रचक्रनुतमर्हणोचितं यद्विदन्नपि जगद्गुरुं हरिम् । पृच्छसि त्वमिह मां व्यनक्ति तद्वौरवं गुरुषु कौरवोत्तम ॥ ५३ ॥ यत्पदोदकमधत्त मूर्धनि स्वर्धनी त्रिजगतीहरो हरः। . तं पुराणपुरुषं त्वमञ्जसा विज्ञ यज्ञपुरुषं च पूजय ॥ १४ ॥ इत्युदारनिजचिन्तनस्फुटीकारवाचि सति शंतनोः सुते । आद्यमर्घमसुरारये रयात्पाण्डवोऽदित नवोदितस्मितः ॥ ५५ ॥ यज्ञसीम्नि शिशुपालपार्थिवश्चक्षमे न हि तदर्चनं हरेः। पाटलायितकरालहँग्गिरं देहिनीमिव रुषं ततान तत् ॥ १६ ॥ १. पयोधिप्रनाथ' ख. २. ख-पुस्तकेऽधिकः. ३. 'क्षत्र' ख. ४. 'तत्' क. ५. 'स्मयः' क-ग, ६. 'दग्भरं' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy