________________
१५४
काव्यमाला। सज्जनेष्वकृत भोजनक्रियाशोधनान्यथ सुयोधनानुजः । भूमिदैवतततिप्रतिग्रहे साग्रहोऽजनि कृपीतनूद्भवः ॥ २० ॥ पूजनानि जनयन्नयोज्ज्वलो राजराजिषु रराज संजयः । कृत्यवस्तुनि मनो धुनीजनिद्रोणयोरजनि याज्ञिकेऽधिकृत् ॥ २१ ॥ दक्षिणाखजनि दक्षिणः कृपस्तत्त्वमैक्षि विदुरेण धार्मिकम् । अर्हणग्रहणगौरवं नृपः कौरवोऽभजत सर्वभूभुजाम् ॥ २२ ॥ नारदादिमुनिराजिराजिते केशवादिकनरेशपेशले। .. ब्रह्मतामधित तत्र सत्यवत्यङ्गजस्त्रिजगदर्चितः क्रतौ ॥ २३ ॥ यज्ञवेदिमनुसंस्कृतामुपाध्यायपतिभिरथो यथोचितम् । आजगाम सह राजकैरसौ राजसूययजमानशंकरः ॥ २४ ॥ सा जगत्रयजनौघपावनी नूनमात्मनि पवित्रताकृते । तत्पदं त्रिपथगाभ्यगादनूचानचक्रगुणितत्रयीमयी ॥ २५ ॥ भावसौरभभृतो विभावसौ मन्त्रपूतमुपहूतदेवताः । जुह्वति म बत बह्वपि द्विजा द्रव्यमण्डलमखण्डशक्तयः ॥ २६ ॥ पालनोद्यततृतीयपाण्डवप्रत्तखाण्डवरसौधनीरुजा। पावकेन पपिरे परम्पराः सर्पिषामिह वपुःप्रपुष्टये ॥ २७ ॥ हूयमानमुपस्य सजिता वीक्ष्य हव्यममरा हविर्भुजि । आननोत्थममृतं मुहुर्मुहुः सावहित्थमहतस्पृहाः पपुः ॥ २८ ॥ उद्धतेऽपि सति धूमसंचये लोचनैरनिमिषैनिरीक्षितम् । गृह्णते स्म हविराहुतं द्रुतं पावके निपतदेव देवताः ॥ २९ ॥ नीरसाभिरमृतेऽमृतयुतेः किं च नीरुचिभिरप्सरोऽधरे । तत्र कश्चन सुधाचयस्त्रयस्त्रिंशता त्रिदशकोटिभिः पपे ॥ ३० ॥ तत्र वैल्गनरसाय वल्गता संततं ग्रुपतिना वियोगिनी । चौरराजत मखाग्निकेतनश्रेणिदम्भकृतवेणिबन्धना ॥ ३१ ॥ दानवारिधुतदानवैर्यथास्वादितैव विबुधैः सुखं सुधा । धौम्यधूतलघुजातिभिस्तथाभुज्यतान्नममृतं द्विजातिभिः ॥ ३२ ॥ १. 'वल्लभरसाय' क-ख.