SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १३८ काव्यमाला । वृक्षेषु न श्लिष्यति शस्त्रपातैर्न भिद्यते स्वः प्रभुचापकान्तिः । आयोधनं सर्वरथेषु यस्य ध्वजो जयस्तम्भ इवेक्ष्यते च ॥ ९९ ॥ शक्राद्वसुः प्राप बृहद्रथोऽयं तस्माज्जरासंधनृपोऽपि तस्मात् । तं सारथीभूय रथं मुरारिर्भीमार्जुनारूढमथारुरोह ॥ १०० ॥ रथध्वजे भूतशतैः परीतं ध्यानाभ्युपेतं विनिवेश्य तार्क्ष्यम् । राज्ये जरासंधनृपस्य पुत्रं विष्णुर्विनीतं सहदेवमाधात् ॥ १०१ ॥ बन्दीकृतान्क्षितिपतीनथ तान्विमोच्य तैरेव सार्धमथ ते प्रसृतप्रमोदैः । ईयुत्रयीतनुमहः सहजप्रतापा धर्माङ्गजं त्रिजगतीजयिनस्त्रयोऽमी ॥ १०२ ॥ अभ्युद्धृता मगधभूर्धवसिन्धुमग्नाः कुर्मो वयं किमिति तान्वदतः क्षितीशान् । कृष्णोऽभ्यधादिति ममेप्सितराजसूये धर्मोद्भवस्य भवितव्यमहो सहायैः ॥ १०३ ॥ दत्तस्ततो मगधराजजयस्य सारं मूर्त रथो मधुभिदेस युधिष्ठिरेण । संमान्य तेऽपि जगतीपतयो विसृष्टा देशं जवान्निजनिजं ययुरुत्कचित्ताः ॥ १०४ ॥ वीरश्रीचतुरान्नियोज्य चतुरो बन्धून्धनौधैश्चतु दिग्दण्डेन निधाय कोशमसमं यज्ञाय सज्जीभव | दत्वा मन्त्रममुं युधिष्ठिरधराधीशाय तस्याज्ञया विष्णुर्द्वारवतीविलासयुवतीनेत्रेषु मैत्रीमधात् ॥ १०५ ॥ इति श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के सभापर्वणि जरासंधवधो नाम प्रथमः सर्गः ॥ १. 'आयोजनम्' ख. ग. २. 'घर' ख. ३. 'मैत्रीं व्यधात् ' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy