________________
१३४
काव्यमाला।
लीलाचलानां चललोचनानां नृरत्नरत्नाभरणै रणद्भिः। पुरे पुरे वर्त्मनि वर्त्मनि स्यात्तवानिशं कोऽपि नयप्रघोषः ॥ ११ ॥ पृथ्वीश पृथ्वीं त्वयि पाति पान्था भृशं निशीथेऽपि महापथेऽपि । हस्ताग्रविन्यस्तमणिप्रदीपद्युतिच्युतध्वान्तचयाश्चलन्ति ॥ १२ ॥ त्वद्यज्ञतृप्तामरनिर्भयेन्दुभाभिस्तथासौ सरसा रसाभूत् । यथा पृथानन्दन नन्दनोर्वी जहास शश्वत्फलशालिसस्या ॥ १३ ॥ उच्छृङ्खलं खेलति पुत्रराज्यमदादसौ यद्यपि नित्यमुळम् । धर्मो धराधीश भवत्पितेति पदे पदे सक्रियते तथापि ॥ १४ ॥ भवत्क्रतुप्रीतिहृदः पयोधिरत्नाकरेभ्यो रविणा गृहीतैः ।। वृष्टै लैरेव मणीभवद्भिर्बभूव भूः कुत्र न रत्नगर्भा ॥ ५५ ॥ वनानि सर्वाणि करिप्रसूनि बहूनि सर्वे गिरयः सुवन्ति । त्वयि क्षिति पाति नयैकनिष्ठे विन्ध्याटवीरोहणयोः क्व गर्वः ॥ १६ ॥ ऊधस्विधेनुस्तननित्यवर्षत्पयोनदीमातृकतां वहन्तः । ग्राम्याः स्तवस्फारफलाभिरामक्षेत्रा न नेत्राणि धने क्षिपन्ति ॥ १७ ॥ राजन्भवानराजति तारनीतिरसावनीतिस्तव किंतु देशः । महामुनीनामपि साम्यरम्यमनोधनानां हरते मनांसि ॥ ५८ ॥ धर्मैकधीरं निखिलं विलोक्य क्रूरे निजे कर्मणि लज्जमानाः । राजञ्जनं तावकमाधयो वा न व्याधयो वा खलु बाधयन्ति ॥ ५९ ॥ पदे पदे संमदिना सदैव महेषु लोकेन वितन्यमानम् । नवं नवं भोगमुपाददानास्तवाशिषः स्वर्गिगणा गृणन्ति ॥ १० ॥ तव स्तवोक्त्या सफलैव वाणी मुखे भवद्देशजुषां जनानाम् । तेषां पुनर्वेश्मनि निष्फलैव लक्ष्मीरभावेन वनीपकस्य ॥ ६१ ॥ सिक्तों यदि व्यर्थमनोरथानामौरजत्रैरभिसृत्वरीणाम् । तत्कि तवायं नयकल्पशाखी मनोरथं पूरयति प्रजासु ॥ १२ ॥
१. 'वहन्ति' क. २. 'चारु' ख. ३. -अस्तापनीतिः' ग. ४. न विद्यते ईतियंत्रेति विरोधपरिहारः.