________________
१ आदिपर्व - ११ सर्गः ]
बालभारतम् ।
विधृतगृहवयस्यागर्वभीताभिराभिः कृतकसुभगतार्थं पर्यरम्यन्त धन्याः ॥ २९ ॥ हरिरिव दिवसोऽभूद्विश्वकान्तारचारी स्फुरदरुणकरालीकेसरश्रीकरालः । तिमिर करटिमालाभुक्तिरक्तेव दंष्ट्राघटित कुटिल वेषा यन्मुखे सूर्यरेखा ॥ २६ ॥
अतनुत तनुभाजां कामुकः पङ्कजिन्या मुदमुदयमहीभृन्मूर्ध्नि गुप्तार्धमूर्तिः । सततवितत मार्गश्रान्तिविश्रान्तिहेतोः
स्थित इव विनिवेश्योत्तुङ्गशैलाग्रशृङ्गे ॥ २७ ॥ ऋशयति बत सिन्धूर्मत्कलत्राणि तापैरयमयममृतांशुं मत्तनूजं दुनोति ।
इति कुपितपयोधिप्रौढवीचीकराग्र
प्रहत इव स मनोऽप्याप भानुर्नभोग्रम् ॥ २८ ॥ त्रिभुवनजनताया हग्भिराशङ्कयमान
भ्रमिरहिममरीचिः शोचिषां चाकचक्यैः ।
उदयगिरिशिरोऽग्रे तर्कयन्त्रप्रपञ्च
स्फुरिततनुरिवोच्चै रज्यमानो विरेजे ।। २९२५ ।
अहिमकरघरट्टस्फारसंचारलीलादलिततिमिरखण्डश्रोणिसंवावदूकैः ।
तरुणतरतमालश्यामलैरुल्लसद्भिः
प्रसृतमुषसि लक्षैः पक्षिणामन्तरिक्षे ॥ ३० ॥ गगनगहनगर्भे दाववत्पूर्वसंध्या
वतमसतृणजालं ज्वालयित्वास्तमाप । तदिह नियत सुप्तः कान्तिलेशोऽपि भानोदशशतमितशाखश्चित्तचित्राय भावी ॥ ३१ ॥
११९