SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-११सर्गः] बालभारतम् । एकादशः सर्गः । कृतवसतिरजस्रं साधुहृत्पञ्जरान्तः किमपि किमपि वक्ता सत्पुराणोक्तिसूक्तीः । भवतु भुवनचित्तप्रीतये ज्ञानलक्ष्मी कुतुकशुकविहंगः सत्यवत्यङ्गजन्मा ॥ १ ॥ कुसुमशरशरालीसंपदा दंपतीनां सुरभिणि सुरतान्तस्नेहनीरे निमज्जन् । अथ मुरुमथनस्य प्रीतये मन्दचारो ऽजनि रजनिविरामारम्भशंसी समीरः ॥ २ ॥ बन रजनि सरोज स्मेरतामेहि मौनं । ___ कुवलयकलया द्राक्चापलं मुञ्च वार्धे । परिहर दिवमिन्दो कोक संश्लिष्य कोकी मिति जगति मृदङ्गोऽताडि सूर्याज्ञयैव ॥ ३ ॥ अविरतरतलीला खेदभाजां मिथोऽपि श्लथतरपरिरम्भस्यूतसर्वाङ्गकानाम् । अवसरममृतोमिप्लावितानामिवान्त मुकुलितनयनत्वात्प्रेयसां प्राप निद्रा ॥ ४ ॥ खमनसि परमात्मज्योतिरुज्जीव्य सार स्वतलय इव मूर्ते ब्राह्मसंज्ञे मुहूर्ते । किल निजनिजशिल्पं शिल्पिनः कल्पयन्तः किमपि किमपि जन्मापूर्वमुन्मेषमापुः ॥ ५ ॥ दधिमथनविलोलल्लोलदृग्वेणिदम्भा दयमदयमनङ्गो विश्वविश्वकजेता । भवपरिभवकोपत्यक्तबाणः कृपाण श्रममिव दिवसादौ व्यक्तशक्तिर्व्यनक्ति ॥ ६ ॥ १. 'गुरुमिथुनस्य. ग. २. 'मूर्त-' ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy