________________
१ आदिपर्व - ९ सर्गः ]
बालभारतम् ।
वासरान्तशिशिरत्वचारुणा मारुतेन गमितेव निर्वृतिम् । भानुतापभवखेदभेदिना मीलदब्जनयना बभूव भूः ॥ २३ ॥ विष्टपत्रयकिरीटतां गते भास्करे जलधिमध्यपातिनि । दिक्षु भूरितुमुलासु पक्षिभिर्म तारकगणोऽयमुद्ययैौ ॥ २४ ॥ द्यौरुदारपरिरम्भविभ्रमादस्य सांध्यसमयस्य रागिणः । स्वेदविन्दुभिरिवोडुभिर्वृता गाहतेऽल्पतमसा विवर्णताम् ॥ २५ ॥ वराहघटया तमस्ततौ पङ्कमग्नमिव मन्यमानया । पल्वलाद्वहिरुपेतयाप्यहो मन्दमन्दमनयाभिसृप्यते ॥ २६ ॥ सुप्तनीररुहगुप्तषट्पदीवृन्दमेन्दकृतगीतिरीतिषु ।
स्वं
९७
आविशन्ति करिणीसखाः सुखं पश्य वारिशयनेषु वारणाः ॥ २७ ॥ वित्तमाप्तमिव पद्मिनीपतेस्तापमस्य परदेशगामिनः । सौहृदाद्धृदयपञ्जरे परिक्षिप्य रक्षति रथाङ्गसंचयः ॥ २८ ॥ सूक्ष्मकादपि दिनान्धलोचनादल्पमप्यजनि यहिस्तमः । वर्धते तदिह पश्य पांसुलाचक्रवालसुकृतैरिव क्रमात् ॥ २९ ॥ तत्क्षणोदितविलीनयानया संध्यया क्षणिकतामिव स्मरन् । बोधितः सृजति कैरवाकरो बद्धषट्चरणवन्दिमोक्षणम् ॥ ३० ॥ अब्धिपातिनि विरोचने जगल्लोचने निचितदुःखद्वेषितः । न्यङ्मुखः सृजति पाणिघर्षणं दीपवर्तिजननच्छलाज्जनः ॥ २१ ॥ दीपवर्तिकृतिमेलितं स्त्रिया भाति पाणियुगमुद्यताङ्गुलि विश्वविश्वजयिनश्चलाचलं सारचक्रमिव मारचक्रिणः ॥ ३२ ॥ अन्धकारसुभटस्य भास्करं दुर्जयं जितवतः समन्ततः । पुष्पवृष्टिरिव निर्ममे सुरैर्मूर्ध्नि तारककदम्बकैतवात् ॥ ३३॥ एकतोऽपि भुवि भूरिशोऽभवन्दीपकादहह पश्य दीपकाः । अन्धकारनिधनाय भानुमन्मुक्तदिव्य विशिखादिवेषवः ॥ ३४ ॥ दैवमुक्तमिह तामसं महच्छस्त्रमाहतमहो महोमयैः । अस्त्रवत्पुरुषकारचारितैदींपकैरहह विग्रहस्तयोः ॥ ३५ ॥
१. 'सद्वराहघटया' ग. २. 'मन्द्र' ग. ३. 'दुःखितः ' ग. ४. सर्वलोकजेतुः . १३