SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। जागृहीति पुरतः षडत्रिणा व्याहृतेव निनदैः कुमुद्वती । किंचिदुन्मिषितकैरवेक्षणा हुं करोति मृदु तत्प्रतिवनैः ॥ १० ॥ आगतागतवियोगदुःखितौ कृप्तगाढपरिरम्भविभ्रमौ । मुञ्चतोऽश्रु चितपक्ष्म पक्षिणावतिदीनवदनौ दिनाधिपे ॥ ११ ॥ मण्डलीचलितपक्षिमण्डलीकैतवेन तरवे वितन्वते । यामिनीसमयशीलभीतितो मौलिबन्धमिव पश्य मौलिषु ॥ १२ ॥ एष्यदुर्धरतमश्चमूपुरश्चारिवीरनिकरानुकारिभिः । गोरजोभिरभितोऽविषङ्गिभिः शेष एष दिवसोऽवसीदति ॥ १३ ॥ दूरतः स्वयमुपेयुषो रवेः पूजितस्य सबलैः सुरासुरैः । रत्नपीठ इव सज्जयत्ययं बिम्बबिम्बनमिषेण वारिधिः ॥ १४ ॥ वासरास्यकमलस्य भास्वरं भास्करस्य लवमात्रकं वपुः । ओष्ठबिम्बमिव चुम्बनोत्सवादापपेऽपरदिशानुरक्तया ॥ १५ ॥ कापि गन्तुमनसा दिनश्रिया यामिनीसमयकेलिलीलया। भानुरब्धितरणाय सज्यते न्यङ्मुखो घट इवार्धलक्षितः ॥ १६ ॥ अस्तभूमिभृति भाति वारुणीदिग्वधूस्तनसमे समुन्नते। रागिणोऽरुणवपुर्लवो रवे रागचिह्ननखलक्ष्मसंनिभः ॥ १७ ॥ अस्तभूमिधरमस्तकज्वलद्भास्करोपलकृशानुभानुभिः। एष तप्त इव पाटलद्युतिः सप्तसप्तिरपतत्पयोनिधौ ॥ १८ ॥ यद्भिदे त्रिभुवनं भ्रमाम्यहं लब्धमेतदधुना व यास्यति । इत्यसौ खलु रुषारुणो रविस्तोयधौ तिमिरशङ्कयापतत् ॥ १९ ॥ सुप्तनीरशयनाभिनीरजक्रोडपीडितविरिञ्चिपञ्चितैः । अम्बुधौ कमलबान्धवोऽधुना कृष्टिमन्त्रजपनैरिवापतत् ॥ २० ॥ द्राग्वितीर्य ककुभां मुखे मंषीकूर्चकं निचिततद्रुचिस्पृशाम् । अन्वगामि दयितो दिनश्रिया सांध्यरागशिखिसेवया रविः ॥ २१ ॥ अत्र सांध्यसमये समागते यजनो भजति नम्रतां कृती । चित्रमत्र किमु नीलिताः करा यज्जलैरपि सरोरुहच्छलात् ॥ २२ ॥ १. 'मखी' क-ख-ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy