________________
१आदिपर्व-७सर्गः] बालभारतम् ।
सेयं दशापि तव तप्ततनूविवर्त
संवर्तमर्मरितबालमृणालशय्या । तुभ्यं सदैव नलिनानि समानयन्ती ___ लोकेऽपि कोपिनि बभूव निरुत्तराहम् ॥ १० ॥ एषा पदे निपतितास्मि कुरु प्रसाद
मद्यास्तु ते रिपुजनो विफलाभिलाषः । इत्थं विचक्षणसखीवचनानुरोधात्पाणाधिनाथमनुकूलयति स काचित् ॥ ११ ॥
(पञ्चभिः कुलकम्) रन्तुं परः करयुगेन गृहीतपाद
पद्मः सृजन्ननुनयानभिमानवत्याः । उत्पत्य दीनवचनोऽप्यनिरीक्ष्य वक्रं
तस्याः शुशोच कुचगौरवमप्यभीष्टम् ॥ १२ ॥ यस्या ध्वनिर्मम गिराप्युपमीयते सा ___ स्यात्कीदृशी पिकवधूः सखि दृश्यमेतत् । इत्युक्तिकैतववती वनमाप कापि . पूर्व गतेऽपि दयितेऽनुनयान्निरस्ते ॥ ५३ ॥ प्रौढागसापि दयितेन पदप्रणाम
लीलावतापि रचितं बत गोत्रभेदम् । तं काचिदश्रुतवतीव मनोभवज्या
टंकारराववेलिता चलिता वनाय ॥ १४ ॥. एषा कथं परिहरिष्यति मानमित्थं
चिन्तानिधिर्नतमुखो विलिखन्धरित्रीम् । उद्दामकामशरपीडितया कयापि
कान्तो नितान्तमनुनीय वनाय निन्ये ॥ ५५ ॥ १. 'मानेन' क. २. 'परिवृढेन' ख-ग. ३. 'तत्' क. ४. 'मनोभुवि' ग. ५. 'कलिते ग.