________________
186
जैन दर्शन के परिप्रेक्ष्य में आदिपुराण
-
आ.पु. 3.15--18
-
आ.पु. 3.19-21
- आ.पु. 3.23
-
आ.पु. 3.25
द्विरुक्तसुषमाद्यासीत् द्वितीया सुषमा मता। . सुषमा दु:षमान्तान्या सुषमान्ता च दुःषमा।। पञ्चमी दु:षमा ज्ञेया समा षष्ट्यतिदुःषमा।
भेदाइमेऽवसर्पिण्या उत्सर्पिण्या विपर्ययाः।। 124. समा कालविभागः स्यात् सुदुसावर्हगर्हयोः।
सुषमा दु:षमेत्येवमतोऽन्वर्थत्वमेतयोः।। उत्सर्पिण्यवसर्पिण्यौ कालो सान्तर्भिदाविमौ। स्थित्युत्सविसर्पाभ्यां लब्धान्वर्थाभिधानकौ।। कालचक्रपरिभ्रान्त्या षट्समापरिवर्त्तनैः।
तावुभौ परिवर्तेते तामिस्रेतरपक्षवत्।। 125. सागरोपमकोटीनां कोटी स्याच्चतुराहता।
तस्य कालस्य परिमा तदा स्थितिरियं मता।। 126. तदा स्थितिर्मनुष्याणंत्रिपल्योपमसम्मिता।
षट्सहस्राणि चापानामुत्सेधो वपुषः स्मृतः।। 127. वज्रास्थिबन्धनाः सौम्याः सुन्दराकारचारवः।
निष्टप्तकनकच्छाया दीप्यन्ते ते नरोत्तमाः।। मुकुटं कुण्डलं हारो मेखला कटकाङ्गदौ। केयूरं ब्रह्मसूत्रं च तेषां शश्वद् विभूषणम्।। ते स्वपुण्योदयोद्भूतरूपलावण्यसंपदः।
रंरम्यन्ते चिरं स्त्रीभिः सुरा इव सुरालये।। 128. महासत्त्वा महाधैर्या महोरस्का महौजसः।
महानुभावास्ते सर्वे महीयन्ते महोदयाः।। 129. तेषामाहारसंप्रीतिर्जायते दिवसैस्त्रिभिः।
कुवलीफलमात्रं च दिव्यान्नं विष्वणन्ति ते।। निर्व्यायामा निरातङ्का निर्णीहारा निराधयः।
निस्स्वेदास्ते निराबाधा जीवन्ति पुरुषायुषाः।। 130. स्त्रियोऽपि तावदायुष्कास्तावदुत्सेधवृत्तयः।
कल्पद्रुमेषु संसक्ताः कल्पवल्ल्य इवोज्ज्वलाः।। 131. पुरुषेष्वनुरक्तास्तास्ते च तास्वनुरागिणः।
यावज्जीवमसंक्लिष्टा भुञ्जते भोगसंपदः।। 132. स्वभावसुन्दरं रूपं स्वभावमधुरं वचः।
स्वभावचतुरा चेष्टा तेषां स्वर्गजुषामिव।। 133. रुच्याहारगृहातोद्य माल्यभूषाम्बरादिकम्।
भोगसाधनमेतेषां सर्वं कल्पतरूद्भवम्।।
-
आ.पु. 3.26-28,
-
आ.पु. 3.29
-
आ.पु. 3.30-31
--
आ.पु. 3.32
- आ.पु. 3.33
- आ.पु. 3.34
--
आ.पु. 3.35