________________
उदयसुन्दरी कथा। मथनविदूरपलायितानां गिरिदुर्गमिव मणीनाम्, आरब्धमथनेभ्यः सुरेभ्योऽपन्हुतं रत्नसर्वस्वमिव वरुणराजस्य, महाकोलेन रसातलादुदस्यमानायाः सागरोर्मिभिराहत्य पातितं मणिकिरीटमिव वसुन्धरायाः, यादोभिरम्भोधिजलं हरतामम्भोमुचामाच्छिद्य गृहीतभग्नस्येन्द्रधनुषो दलमिव पुञ्जतया विश्रान्तं, प्रलयसमयोपयोगिनामेकत्र मिलितं तेजस्विनां वृन्दमिव कालातिवाहनधिया सङ्कुच्यावतिष्ठमानं, पातालतलवासिनो ज्वलतः कालाग्निरुद्रस्य समुत्थितं ज्योतिरिव स्तम्बाकारेण परिणतं, कुम्भयोनिजनितापकारक्रोधादम्भोधिना तजनक इति बलादाबध्य कारागृहोपरि कृतेनेव धामवतारत्नकलशेन विभूष्यमाणशिखरामविलग्नया जलशायिनो हरेमूली(स्तल्पी?)भूतेन शेषाहिना विमुक्तया निर्मोकलतयेव धवलप्रलम्बया वैजयन्त्या विराजमानं, मद(ध्य?)घटितशालभञ्जिकाश्लेषरोमाञ्चितैरिव निबिडकिरणाङ्करकण्टकितैरमलमरकतस्तम्भैरुद्भासमानं, माणिक्यमणिभूमिसङ्कान्ताभिरुपरि मण्डपनिवेशितानामतनुमुक्तावचूलवलयानां प्रतिबिम्बपरिपाटिभिः सहजरङ्गावलिमनोहरम्, उभयतो द्वारशाखासन्नजनितविद्रुमदलपुत्रिकापाणिप्रणिहितस्य शशिकान्तसृष्टीलाकमलस्य कर्णिकीकृतया पुष्पराग(कलि)कया सततमनुच्छिन्नदीपकालोकं, सर्वतो निहितरत्नसन्तानैरधनीकृतरत्नाकर, तलपीठसञ्चिताचरमचामीकरशिलाभिरकिञ्चनीकृतकनकाचलं, निरन्तरनिवेशिताशेषजन्तुरूपैः शून्यीकृतत्रिभुवनम्, अनेकरचनाविन्यासचारुताभिरियतीकृतविश्वकर्मविज्ञानम्, आनन्दकन्दशो(सा? )रसमकर्मनिर्माणमेदुरम्, अदूरपुष्पद्रुमारामवलयितमपश्यमुद्दीप्रमणिमयं महिष्ठमायतनम् ।
सपद्यपधूताशङ्कमुच्छसितहृदयश्च सम्यगाह्लानिवृत्तया दृशा सम्भाव्य रभसेन गत्वा प्राविशमपश्यं च तत्रान्तःप्रतिष्ठितं शब्दमिवार्थप्रतीतेरखिलसंसारसृष्टेरादिभूतं भगवन्तमम्बिकानाथम् । घटितकरकमलसम्पुटस्तु तं प्राणिनामिष्टमभीष्टसिडये स्तुतवानस्मि ॥
देवः पातु शिवो जगन्ति पटुना स्नेहेन सिद्धाञ्जने
नेवाभ्यञ्जितया दृशा भगवती यत्र प्रिये पार्वती । आर्द्रभत्वचमच्छनेत्रपटवद्रीवोरगं हारव
बूर्ति चन्दनधूलिवत्तिलकवद्भालेक्षणं वीक्षते ॥१॥ इति स्तुतिपूर्वमवनितलमिलितजानुमस्तकः प्रणम्योत्थाय विश्रामकामः समुपवेष्टुमेकान्ते माणिक्यमणिफलकपेशलं मत्तवारणकमशिश्रियम् । अथ
: उदयमु०