________________
उदयसुन्दरीकथा। मेन पूर्वानुरागेण वा विप्रलब्धा पराङ्गनैव गण्यते, इत्यादि परामर्शविकलस्य मे विस्मृतोऽयमेकहेलयैवात्मा। विस्मृतं कुलव्रतम् । विस्मृतः पन्थाः सुकृतस्य । विस्मृता गिरो गुरूणाम् । विस्मृता च लोकस्थितिः। केवलमनगहतकेन पापीयसा प्रेरितः, प्रवर्तितो दुष्कृतेन कर्मणा, संज्ञितो नरकगत्या, केनाप्ययश:कलङ्केनाभ्यनुज्ञातः, सरभसमियमेवात्मा, कुलव्रतमियम्, इयं मार्गः सुकृतस्य, तत्त्वमियं गुरूपदेशानाम्, इयं च सालोकस्थितिस्तनूदरी, तदनया करोमि सफलं संसारम्, अनुत्थापयन्नेव न यथावेत्ति कश्चिदपि तथा त्वरितमादाय व्रजामीत्यसन्दिग्धेन मनसा समीपमुपसृत्य झगित्युत्क्षिप्य ततः प्रवालतलात्सुप्तामेव निभृतमेनां निजं विमानमधिरोप्य जातालब्धलाभ इव सहर्षमन्तरिक्षपथेनागन्तुमारब्धवान् । वीक्ष्य विमाने मुहुरमुष्या वदनमम्बरे च शशभृतो बिम्बमिदं चिन्तितवानस्मि ॥
स्वच्छेन्द्रनीलफलकप्रतिमे यदेत
देवं विभाति गगने शशिनोऽस्य बिम्बम् । मन्ये तत्र सुरयानभुवि स्थितायाः
सङ्कान्तमुज्वलमुखप्रतिबिम्बमस्याः॥ . अथवा स एवायममृतरोचिः किन्तु
अस्या मुखेन विजितो नियतं बिभर्ति
कालुष्यमन्तरितमिन्दुरतः सदैव । ज्योत्स्नापटेन पृथुना स्वमसौ पिधाय
रात्रौ परं प्रचरति त्रपयेव गुप्तः॥ - पुनर्विभाव्य यदि वा न खल्वसौ हिमांशुरन्यदेव तर्कयामि किंचित्, तथाहि
रूपेण नूनममुना भुवनत्रयेऽपि
नास्याः समं युवतिरत्नमितीह धात्रा। व्योमावनौ खटिकयाऽन्यपुरन्ध्रिकाणां
रूपस्य शून्यमिदमिन्दुमिषेण दत्तम् ॥ भूयोऽप्येनां प्रति सशिरःकम्पमहो निद्रामीलितविलोचनस्यापि सौन्दर्यमाननस्य, अहो प्रवालतल्पदलदाहकान्तर्दवथुकदर्थिताया अपि लावण्यमङ्गयष्टेः, अहो शिशिरोपचारचन्दनजडीकृतानामपि कान्तिरवयवानामित्यादि(प्र)शंसापुरस्सरमनवरतमस्यां निषण्णेन चेतसा शून्यीकृतविमर्शमागच्छतो