________________
१२८
सोडलविरचिता तुरङ्गयाः सकौतुकमहो किमियमुत्पतिता वियत्पथेन याति, किमुत्क्षिप्य केनाप्यदृश्यमूर्तिना नीयमाना तिष्ठति, किमेतदङ्गसंक्रान्तः कश्चित् छद्मवानेवं प्रसपति, किमीदृशमेव जवस्वरूपमस्या इति बहुवितकेंव्यग्रतया मुहूतेमकृतावधान: सहसैव परमनेकतरुशकुन्तकूजितारावतुमुलैरुड्रोधितेन मनसा दत्तदृष्टिरकस्मादात्मानमेकत्र महावने पतितं व्रजन्तमद्राक्षीत् । वीक्ष्यते यावत् तावत्स खलु महीध्रमेदुरो नास्ति शाखामृगोऽपि, अग्रे केवलं निवारयितुमिवाग्रतोगमनमन्तरे स्थितम्, छलितविन्ध्यगिरेरगस्त्यस्य रोषावर्धितमिव पिधाय दक्षिणां ककुभमवतिष्ठमानमेकं गौरीतपश्चरणपश्चाग्निना विलीनतुहिनं हिमाद्रिमिव, हरपदस्पर्शप्रभावादपगतस्फटिकपाण्डकुष्ठम्, कैलासमिव, वार्धकेन गलितकाञ्चनच्छविं सुमेरुमिव, अद्भशिखरकृताभ्रं भूधरमपश्यत् ।।
उपजातविस्मयश्च त्वरितमाकृष्टरश्मिवलयो विधृत्य तुरङ्गीमुपसृत्य च घनच्छायातिशीतलं तलमनोकहस्य श्रमभरातिमन्धरया दृशा निरूप्य सन्निवेशमशेषतो दिशां सम्भ्रान्तहृदयश्चिन्तयाञ्चक्रे-अहो ! काहमिह महावने पतितः, कतम एषोऽपि ब्रह्माण्डफलककीलको विसङ्कटः सानुमान् , क सोऽस्मद्वनीप्रवेशः, क ते कुमारकेसरिप्रभृतयः सहायाः, कियन्तमध्वानमियमुल्लडिन्तवती महाजवा तुरङ्गी, न चैतस्या वेगलाघवमिदमदृष्टपूर्वमालोचयता व्यग्रेण मया समुपलक्षितोयमुज्झितस्वीकृतो भूविभागः, क चासो कपिर्यदर्थमनुपृष्ठधावितोऽस्मि, किमदृश्यो भूत्वा कचिद्भूतः, किमिह मायाविना तेनाहमाकृष्य छलादानीतः, करिष्यति वा किञ्चिदुपरिष्टादन्यदप्यसौ, किमियमित्थं प्रवृत्तिः किञ्चिन दर्शयिष्यति कर्मणोऽनुरूपं फलम् , किमेवमीदृग्विधं प्रातिकूल्यं वा विधेः, इदानी किमत्र क्रियते, किमु व्यावर्त्य तुरगी पश्चाइजामि, किमतनी भुवमनुसरामि, किमिदैव तावत्तं हताशमदृश्यीभूतं वनौकसमन्वेषयामि, यदि तावदियमीदग्विधा ललितैव तुरङ्गी ततो मे न दूर निजनिवासनगरं संप्राप्तिः (तुं ?) स पुनरास्पदं महाद्भुतस्य कथमवेक्षितव्यो वलीमुखः, यहा सर्वेऽपि परमधर्मार्तिभृतः पिपासिताश्च नितान्तशीतलमतिस्वादुसलिलमुपकूलफलवद्वनीरुहं जलाशयमधिश्रयन्ति तत्तमहमाश्रयामि, तत्रापि यदि नैष प्रत्यक्षतामेष्यति ततः किमनेन, मनः प्रवृत्तिरेव कौतुकमकौतुकञ्च कल्पयति, तावत्खरातपसमयसर्पणश्रमकर्थितामिमां तुरङ्गी. मात्मानं च जलायुपसेवनैरुपजनितसौष्ठवं विधाय कालोचितं करिष्यामीति निश्चित्य चलितस्ततो द्रुमतलात् समंधरप्रचारमितस्ततो निभालयन्नातिदूरमा