________________
रामायणम्। त्यलोग्रश्वापदेऽरण्ये जीवस्त्वं स्वप्रभावतः । एक दिव्यं तदप्यासी नाजासिष महं पुनः ॥२७॥ नांत्वा सव्वं ममेदानी मिदमध्याख पुष्पकम् । चलख वेश्मनि प्राग्व द्रुमख सहिता मया॥२८॥ सीताप्यचे नते दोषो न च लोकस्य कश्चन । नधान्यस्यापि कस्यापि किन्तु मत्यूळकर्मणाम् ॥२६॥ निर्विन्ना कर्मणामोहक दुःखावर्तप्रदायिनाम । ग्रहीष्यामि परिवज्यां तेषामुच्छेदकारिणीम् ॥३०॥ इत्यत्वा मैथिली केशानुच्चखान खमुष्टिना। रामस्य चार्पयामास शक्रस्येव जिनेश्वरः ॥३१॥ सद्यो मुमळू काकुत्स्थो नोत्तस्थौ यावदेषु च । तावत्सीता ययौ साधु जयभूषणसन्निधौ ॥३२॥ केवली स जयमूषणो मुनि मैथिली विधिवदयदीक्षयत् । सुप्राभाख्यगणिनीपरिच्छदे तो चकार च तपः परायणाम् ॥३३॥
इत्याचार्य श्रीहेमचन्द्रविरचिते सीताशुद्धि
व्रतग्रहणो नाम नवमः सर्गः ॥६॥