________________
३२४
रामायणम् ।
गृहे गृहे त्वं गृहिणां कारये बिम्बमार्हताम् । पुर्य्यामस्यां ततो जातु व्याधिर्मावी न कस्यचित् ॥ ३६ ॥ इत्युक्वा ते समुत्पत्य ययुः सप्तर्षयोऽन्यतः । शत्रुघ्नोऽपि तथा चक्र े लोकश्च भून्निरामयः ॥३७॥ तेषां सप्तऋषीणाञ्च प्रतिमा रत्ननिर्मिताः । स चक्र मथुरापुर्य्यं ककुप्सु च चतसृषु ॥ ३८ ॥ इतश्च वैताढयगिरौ दक्षिणश्रेणिभूषणे । पुरे रत्नपुरे रत्नरथो राजा तदा भवत् ॥३६॥ तस्य चन्द्रमुखी कुक्षिजन्मा नाम्ना मनोरमा । उद्यौवना कन्यकाम ट्रूपेणापि मनोरमा ॥४०॥ दातव्या कस्य कन्येय मितिमन्त्रपरे नृपे । उपेत्य नारदेोऽवोच ब्लक्ष्मणस्येयमर्हति ॥४१॥ पुत्री रत्नरथस्याथ कुपिता गोत्रवै रतः । म्हत्यान् वसंज्ञयादिचन् विटोयं कुव्यतामिति ॥४२॥ उत्तिष्ठतो जिघांस' स्तान् धीमान् विज्ञाय नारदः । समुत्पत्य पतनीव प्रयया वुपलक्ष्मणम् ॥४३॥ लिखित्वा तां पटे कन्यां दर्शयामास नारदः । लक्ष्मणाय खष्टत्तान्तं ताञ्च चख्यौ विशेषतः ॥ ४४ ॥ तद्रूपदर्शनाज्जातानुरागो लक्ष्मणः क्षणात् । समं रामेण तत्रागा तो विद्याधरैर्वृतः ॥ ४५ ॥
a