________________
रामायणम् ।
तद्वाणघातविधुरो मधुरेवमचिन्तयन् । शूलं पाणौ न मेभ्यागान्न हतो लक्ष्मणानुजः ॥७६॥ गतं मम मुधा जन्म जिनेन्द्रो न यदर्चितः । कारितानि न चैत्यानि दत्तं पात्रेषु नो मया ॥७७॥ इति ध्यायन्नात्तदीचो नमस्कारपरायणः । मृत्वा सनत्कुमारेऽभून्मधुर्देवो महद्विकः ॥७८॥ मधुदेहस्योपरिष्टान्महिमानं सुराव्यधुः ) पुष्पदृष्टिं जुघुषुश्च मधुर्देवो जयत्विति ॥ ७६ ॥ तच्छूलं देवतारूप मुपेत्य चमरान्तिके । शत्र ु नान्मधुनिधनं च्छलोत्पन्नं शशंस च ॥८०॥ ततो मित्रवधामर्षा ञ्चमरः प्राचलत्खयम् । पृष्ठः क्व यासीति तार्च्य खामिना वेणुदारिणा ॥ ८१ ॥ हन्तु ं खमिवहन्तारं शत्रुघ्नं मथुरास्थितम् । यास्यामीति तदाख्याते वेणुदार्य्यवदत्पुनः ॥ ८२ ॥ धरणेन्द्राद्रावणेन या लब्धा सापि निर्जिता 1 शक्तिः सौमिविया पुण्यप्रकष्टेनाई चक्रिणा ॥८३॥ रावणोपि हत स्तेन तत्पत्तिस्तु कियान्मधुः । शव नो लक्ष्मणादेशादवधीत्प्रधने मधुम् ॥८४॥ उवाच चमरेन्द्रो यच्छक्तिः सौमित्रिणाजिता । कन्यकाया विशलायाः प्रभावेण तदा खलु ॥ ८५ ॥
३१८