________________
२६४
रामायणम। सन्नहन्तिम युद्धाय सामन्ता रावणस्य ते । हस्त प्रहस्त मारीच सारणाद्याः सहस्रशः ॥१५॥ रावणो रणतूर्याणि दारुणान्यथ कोटिशः । किङ्करैस्ताडयामास द्विषत्ताडनपण्डितः ॥२६॥ तदा दशासमस्येत्य नत्वाऽवोचविभीषणः । क्षणं प्रसीद विसश शुभोदकं वचो मम॥१७॥ अविमृश्य पुरा चक्र लोकहितयघातकम् । परदारापहरणं लज्जितं तेन ते कुलम् ॥१८॥ निजभायों समानेतु' काकुत्स्योऽयमुपस्थितः । श्रातिथ्यमिदमेवारी तत्कल वार्य णं कुरु ॥१६॥ सीतां त्वत्तोऽन्यथाकारमपि रामे ग्रहीष्यति । निग्रहीष्यति चाश त्वया सह कलं तव ॥२०॥ दूरे स्तां रामसौमित्रो तौ साहसखरान्तको। तत्पत्तिरेको हनुमान् दृष्टो देवेन किं नहि ॥२१॥ इन्द्रथियोऽधिका श्रीस्त तां सीताकारणेन मा । परिहार्षीभवेदेवमुभयमुष्टता तव ॥२२॥ अथेन्द्रजिदुवाचैवं त्वया ह्याजन्मभीरुणा। दूषितं नः कुलं सर्व नासि तातस्य सेोदरः ॥२३॥ इन्द्रस्यापि विजेतारं नेतारं सर्वसम्पदाम् । तातं सम्भावयन्नेवं ननं मूर्ख मुमूर्षति ॥२४॥