________________
१६४
रामायणम् ।
तं प्रयच्छाऽधुना मह्यं नाथ सत्यप्रतिश्रवः । प्रस्तरोत्कीर्णरेखेव प्रतिज्ञा हि महात्मनाम् ॥२२॥ अथावदद्दशरथः प्रतिपन्नं स्मराम्यहम् । याचख यन्ममाधीनं विमा व्रतनिषेधनम् ॥ २३ ॥ ततो ययाच े कैकेयी त्वं चेत्प्रत्रजसि स्वयम् । स्वामिन् विश्वम्भरामेतां भरताय प्रयच्छ तत्॥२४॥ अद्यैव गृह्यतामेषा मह्नरित्यभिधाय ताम् । सलक्ष्मणं समाह्वय रामं दशरथोऽवदत् ॥२५॥ अस्याः सारथ्यतुष्टेन दत्तः पर्व मया वरः । सेोऽयं भरतराजेन कैकेय्या याचितेोऽधना ॥ २६ ॥ रामोपि हृष्टोऽभाषिष्ट मात्रेदं साधु याचितम् । यन्मद्वात्नळे भरताय राज्यदानं महै| जसे ॥२७॥ आपप्रच्छे प्रसादान्मामिदं तात स्तथाप्यदः । दुनोति मामविनयस्तवनाकारणं जने ॥२८॥ अप्येक वन्दिने राजं तुष्टस्ताताददात्वदः । निषेधेऽनुमतौ वा मे न खाम्यं पत्तिमानिनः ॥२६॥ भरतोष्यहमेवास्मि निर्विशेषा वुभौ तव ।
अतोऽभिषिच्यतां राजेत्र भरतः पराया मुदा ॥३०॥ इति रामवचः श्रुत्वा भूपतिः प्रोतिविस्मितः । आदिचन्मन्त्रिणो यावद्भरतस्तावद ब्रवीत् ॥३१॥