SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ४ काव्यमाला | कृति: कृतावतारायतिपुण्यनायकै विहितावतारदीर्घदेवप्रधानैरजातरिपुसंमुखैर्नरोत्तमैर्नारायचालिता कोटिशिलेव केन वा इव न न अर्च्यते, पूज्यत एवेति भावः ॥ भारतीयपक्षे – अजातशत्रुप्रमुखैर्युधिष्ठिरप्रमुखैः, नरोऽर्जुनः अघं विघ्नं वारयति निराकरो - तीत्येवंशीलो येषां तैः । ' राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः । राजानमनुवर्तन्ते यथा राजा तथा प्रजा ॥ इत्युक्तः, नराणां मनुष्याणामघं वारयतीत्येवंशीलैर्वा नरोत्तमैर्धीरोदात्तादिगुणास्पदैः कृतावतारा नवा नूतना कृतिः नरोत्तमैः समन्तभद्रादिभिचालिता कोटिशिलेव केन सुखेनार्च्यते । श्लेषोपमा ॥ अथापरागोऽप्यपरागतां गतः स पश्चिमोऽपि प्रथमो विपश्चिताम् । अनुज्ञया वीरजिनस्य गौतमो गणाग्रणीः श्रैणिकमित्यवोचत ॥ ९ ॥ अथेति ॥ अथशब्दो मङ्गलवाची । अपि यस्मात्कारणादपगतरागतां प्रीतिराहित्यं rasa वापराग एनोमलरहितः, विपश्चितां विदुषां प्रथम आद्योऽपि वीरजिनस्यापेक्षया पाश्चात्यः, गणाग्रणीर्गौतमो गणधरः श्रेणिकं मगधदेशस्वामिनम् इति वक्ष्यमाणं वीर - जिनस्य वर्धमानस्य चतुर्विंशस्य तीर्थकर्तुराज्ञया अवादीत् । अपरागतां वाच्यतां गतोऽपि कथमपरागो मलरजोरहितो भवतीति, विपश्चितामाद्योऽपि सन् कथं पश्चिम इति च विरोधः । परिहारस्तूक्तः । विरोधालंकारः ॥ इहैव जम्बूतरुमालवालवत्पयुषो चैर्भरतेऽब्धिना वृते । निवस्तुमिष्टा स्तिमितार्यकिंनरैर्नगर्ययोध्यासमहास्तिनाख्यया ॥ १० ॥ इति ॥ हे आर्य, जम्बूतरुमुच्चैः परीयुषा वेष्टितवतान्धिना समुद्रेणालवालेन स्थानकेनेवावृते वेष्टितेऽस्मिन्नेव भरते भारते क्षेत्रे स्तिमिता निश्चला नरैः निवस्तुं स्थातुमिष्टा अभिलषिता समहा सोत्सवा आख्यया नाम्ना अयोध्या नगरी किं नास्ति, अपि त्वस्त्येव । भारतीयपक्षे – हे असम एवंभूते भारते मिता योजनायामविष्कम्भसंमिता किंनरैः यक्षैः, आर्यकिंनरैः प्रधानयक्षैर्वा निवस्तुमिष्टा अयोध्या परैर्योद्धुमशक्या आख्यया हास्तिना नगरी अस्ति । श्लेषालंकारः ॥ पुरी पयोधी कुलपर्वतानपि प्रसाधयन्ती करशुद्ध मण्डला । विभर्ति साकेतक गोत्रसूचिता सरस्सु लक्ष्मीं प्रतिमा रवेरिव ॥ ११ ॥ पुरीति ॥ करेण सिद्धापेन शुद्धं विटमत्तजनादिरहितं मण्डलं देशो यस्याः सा तं - थोक्ता, साकेतं कायति तेन कथयता साकेतकेन गोत्रेण नाम्ना सूचिता साकेतपर्यायेण प्रसिद्धायोध्या पुरी, पयोधीन्समुद्रान् कुलपर्वतांश्च, प्रसाधयन्ती आत्मगान्कुर्वती सती, करैः किरणैः शुद्धं मण्डलं यस्याः सा, केतकानां गोत्रस्य संतानस्य सूचिता प्रादुर्भावो यस्याः सकाशात् सा, रवेः प्रतिमा बिम्बं पयोधीन् समुद्रान् कुलपर्वतांश्च प्रसाधयन्ती आत्मगान्कुर्वती सतीव, सरस्सु सरोवरेषु लक्ष्मीं शोभां बिभर्ति | भारतीयपक्षे - पुरी हास्तिना, साकेतकानां राजपुत्रविशेषाणां गोत्राय अन्वयाय सुष्ट्रचिता योग्येति विशेषः । श्लेषोपमा ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy