________________
१८६
कृतेति ॥ तमसा यत्पूर्वम् उच्छ्रितमुच्चं तदनुदात्तमधरतरम् यदधरतरं तदुच्चमा - दृतं कृतम् । तथा क्वापि विवेकमतिर्भेदमतिर्नाजनि । तथा च तमः कुनृपैकचेष्टितमिवाभवत् ॥
काव्यमाला ।
पुरतः स्थितं परिचितं च निकटतिमिराहतेक्षणः ।
जात इव धनमदान्ध इव क्वचनापि कोऽपि न जनोऽभ्यचायत || ३४ ॥ पुरत इति ॥ कोऽपि जनः क्वचन अपि 'निकटतिमिराहतेक्षण आसन्नतिमिराभिभूतलोचनो जात इव धनमदान्ध इव' परिचितमपि पुरतः स्थितं न अभ्यचायत ईक्षितवान् ॥
इति दिग्विमूढमिव तत्र गिरिषु दरिषु स्खलत्पतत् ।
व्याप हृतमिव तमस्तमसा तदशेषमग्रजवपूरणोद्यतम् ॥ ३५ ॥
इतीति ॥ तदशेषं तमः इत्येवंप्रकारेण तत्र रणे दिग्विमूढं भ्रान्तमिव गिरिषु स्खलत् दरिषु गर्तासु पतत् समानं रणोद्यतम् अग्रजवपू रामशरीरं तमसा कोपेन हृतं गृहीतमिव व्याप ॥ भारतीये – अग्रजवपूरणोद्यतम् प्रधानवेगस्य पूरणे उद्यतमुद्यमो यस्य तत् अशेषम् ॥ मिलिताङ्गदंपतिसुखाय सहितजनकीयनन्दनम् ।
व्योम्नि गमनमकृत त्वरितः स शनैरवाल्लघुरयाच मारुतः ॥ ३६ ॥ मिलितेति ॥ स मारुतो हनुमांस्त्वरितः सन् शनैरवान्मन्दध्वनेः, लघुरयात्क्षिप्रवेगात् च पतिसुखाय लक्ष्मणसुखनिमित्तं मिलिताङ्गदं मिलितोऽङ्गदो यत्र तत् सहितजनकीयनन्दनं सहितो मिलितो हितसहितो वा जनकीयनन्दनो भामण्डलो यत्र तद् व्योम्नि गमनम् अकृत ॥ भारतीये – मारुतो वायुर्मिलिताङ्गदंपतिसुखाय आलिङ्गितशरीरस्त्रीपुंस - सुखनिमित्तं सहितजनकीयनन्दनं सहितं सप्रेम जनकीयं नन्दनमाह्लादनं यस्मात् तत् ॥ भरतः स्थितः स खलु यत्र तदिदमथवातिरागतः । स्थानमसुखमलिनो न्यगदन्नलिनोदरं निशि निबद्धमीलनम् ॥ ३७ ॥ भरत इति ॥ यत्र खलु भरतः कैकयीपुत्रः स्थितः तदिदं स्थानम् असुखमलिनो दुःखम्लानो वातिर्हनुमान् आगतः । निबद्धमीलनं नलिनोदरं लक्ष्मणं न्यगदत् कथितवान् । भारतीये - ( स मारुतः ) यत्र अतिरागतोऽत्यन्तप्रीतेः सोऽलिर्भ्रमरः भरतः तत्परतया स्थितः तदिदं अलिनो भ्रमरस्य स्थानं निशि निबद्धमीलनं प्राप्तसंकोचम्, नलिनोदरं कमलकोशम्, असुखं यथा स्यात्तथा न्यगदत् ॥
भुवि कोकनिष्ठ इव तत्र सहजपरिपीडनोऽभवत् ।
यः स तपनपरितापगुणः स्वयमस्तमेत्यसह एवमुद्यतः ॥ ३८ ॥
भुवीति ॥ तत्र भुवि समरभुवि यः सहजपरिपीडनो भ्रातृपरिपीडन, तपनपरितापगुणः तपनस्य सूर्यस्येव परितापगुणः, अभवत् । एवं सहजपीडां नाशं नेष्यामीत्यङ्गीकारे