________________
१२ ।
पाभ्युदयकाव्यं कोपात् ॥ मुनिं मन्यते केवलज्ञानेन लोकालोकस्वरूपमिति मुनिस्तम् । भाविनि भूतवदुपचारः । पार्श्वनाथम् ॥ निकामं यथेष्टम् । “ निकामेष्टा यथेप्सितम्" इत्यमरः ॥ हन्तुकामः हन्तुं कामयते इति हन्तुकामः । “ तुमो मनस्कामः” इति मकारस्य लुक् ॥ स्फूर्जनवजलमुचः स्फूर्जतीति स्फूर्जन् । “ टुवोस्फूर्जावनिर्घोषे " इति शतृत्यः॥ जलं मुञ्चतीति जलमुक् । मुच्लञ् मोक्षणे किप्प्त्यः।। नवश्चासौ जलमुक् च नवजलमुक् । “ नूतने नवः " इत्यमरः । स्फूज्जैश्चासौ स चेति पुनः कर्मधारयः । तस्य प्रध्वनदभिनवमेघस्य ॥ कालिमानं कालस्य श्यामलस्य भावः कालिमानं श्यामलत्वम् । “ पृथ्वादेर्वेमन् ” इति भावे इमन्त्यः । “कालश्यामलमेचकाः ” इत्यमरः ॥ दधानः धत्ते इति दधानः दधत् । "सलदीति" आनशूत्यः॥ कौतुकाधानहेतोः हर्षोपादानकारणस्य । अथ वा। उपसर्गकरणेन स्वमनोहर्षोत्पादनिमित्तमिति हेतौ का । “कौतुकं चाभिलाषे स्यादुत्सवे धर्महर्षयोः” इति विश्वः॥ तस्य मुनेः॥ पुरः अग्रे । " स्यात्पुरः पुरतोऽग्रतः ” इत्यमरः ॥ कथमपि गरीयसा प्रयत्नेनेत्यर्थः । “ ज्ञानहेतुविवक्षायामधिकथमित्यव्ययम् । “ कथमादितथाप्यन्तं यत्नगौरवबाधयोः ” इत्यभिधानात् ॥ स्थित्वा आस्थाय ॥९॥
किञ्चित्पश्यन्मुनिपमनघं स्वात्मयोगे निविष्टं __ गाढाऽसूयां मनसि निदधत्तद्वधोपायमिच्छन् । क्रूरो मृत्युः स्वयमिव वहन्स्वेदबिन्दून्सरोषा
दन्तर्बाप्पश्चिरमनुचरो राजराजस्य दध्यौ ॥ १० ॥ किञ्चिदित्यादि ॥ स्वात्मयोगे स्वस्यात्मा तस्य योगस्तथोक्तः तस्मिन् स्वस्वरूपध्याने । “ आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म
१ का इति पंचम्यास्संज्ञा।