________________
पार्श्वभ्युदयकाव्यं मरुभूतिं पृष्ट्वा ( श्रुत्वा ) तद्वचनानुसारेण पुरप्रवेशात्पूर्वमेव भृत्यमुखेन दुःसहामाज्ञां कारयित्वा अस्मश्चक्षुर्विषयो माभूदिति पुरात्कमळं निर्धटयामास । सोऽपि भ्रातरि क्रुद्धो वनं गत्वा तापसवृत्तिं बभार । अथ मरुभूतिरागत्य भ्रातृवार्तामाकलय्य पश्चात्तापाद्गत्वा तमन्विष्य तत्कोपशमनाय पादयोरानमंस्तेनैव क्रोधान्धेन मस्तकस्थशिलापातेन मारितः । एवं भवान्तरेष्वपि तेनैव मृतिमित्वेत्वा कश्चिद्भवे तीर्थकरनाम लब्ध्वाऽत्रैव काशीविषये वाराणसीपुर्या विश्वसेनमहाराजस्य ब्राह्मीदेव्याश्च सूनुः पञ्चकल्याणाधिपतिः पार्श्वनाथनामा मरुभूतिचरस्तीर्थकरो बभूव । कमठचरस्तु चिरं संसारे भ्रमित्वा शम्बरनामा ज्योतिरिन्द्रो भूत्वा स्वैरविहारसमये परिनिष्क्रमणकल्याणाऽनन्तरं प्रतिमायोगस्थितं तन्मुनीन्द्रं विलोक्य प्राक्तनविरोधेन घोरोपसर्ग चकारेत्यादिकथासङ्गतिविस्तरेण तत्पुराणेऽवगन्तव्या। अत्र ज्योतिरिन्द्रस्य शम्बरस्यास्य दैत्येन्द्रत्वं यक्षेन्द्रत्वं वा तस्यालकापुरवासित्वं वर्षमात्रानुभवनीयस्वभर्तृशापप्रभृति सर्व च परकाव्यानुसरणमात्रत्वात् काल्पनिकतयोपगम्य अतीतवर्तमानभवयोरभेदभावेन प्रबन्धोऽयं विरचितो बुद्धिमद्भिरवसेयः ॥ __ अथ भगवान् जिनसेनाचार्यः प्रथमं पादवेष्टितान्युपक्रमन 'आशीर्नमस्क्रियावस्तुनिर्देशो वा कृतेर्मुखम्' इति वचनाद्वस्तुनिर्देशेन कथां प्रस्तौति-- श्रीमन्मूर्त्या मरकतमयस्तम्भलक्ष्मी वहन्त्या
योगैकाग्र्यस्तिमिततरया तस्थिवांसं निदध्यौ । पार्श्व दैत्यो नभसि विहरन्बद्धवैरेण दग्धः
कश्चित्कान्ताविरहगुरुणा खाधिकारात्प्रमत्तः ॥१॥ श्रीमन्मूर्येत्यादि । मरकतमयस्तम्भलक्ष्मीम् मरकतस्य विकारो १ निरकासयत् ।