________________
ज
Bergery
श्रीपरमात्मने नमः ॥
अथ
पार्श्वाभ्युदयकाव्यं सटीकम् ।
टीकाकारस्य मङ्गलाचरणादि ।
श्रियं विदध्याद्विमां सतां स श्रीपार्श्वनाथो नतसेन्द्रनाथः । यहमावेष्ट्य रराज भोगी क्षणप्रभेवासितनीरवाहे ॥ १ ॥ जिनसेनमुनीशेन कृतस्य कविवेधसा ।
पार्श्वाऽभ्युदयकाव्यस्य टीकां वक्ष्ये स्वशक्तितः ॥ २ ॥
नामूलमाश्रयनीषन्नापि प्रस्तुतमुत्सृजन् ।
सर्वमन्वयरूपेण विवृणोमि मृदूक्तिभिः ॥ ३॥
अत्र कथावतारः कथ्यते—
1
इहैव भरतक्षेत्रे सुरम्यविषये पौदनपुरे अरविन्दनृपतिः भुवं पूर्व पालयति स्म । तदा विश्वभूतिनाम्नो द्विजन्मनोऽनुदयश्च तनयौ कमठमरुभूतिसञ्ज्ञकौ तद्भूपतेर्मत्रिपदं प्राप्तौ । तयोः क्रमेण वरुणा वसुन्धरा च भार्ये बभूवतुः । तयोः कनीयान् मरुभूतिः कदाचित् वज्रवीर्यरिपुराजविजयाय निजस्वामिनारविन्दभूपेनामा जगाम । तदा लब्धावसरो दुराचारो ज्यायान् कमठः स्वभार्थ्यावरुणामुखेन वसुन्धरां भ्रातृपत्नीमङ्गीकारयामास किल । राजा विपक्षविजयाऽनन्तरं स्वपुरागमने तद्दुर्वृत्तिं ज्ञात्वा भ्रातृपत्नीमितस्य का वाज्ञेति १ अमा सहेत्यर्थः ।