SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ॥ सूरिभुवनभान्वष्टकम् ॥ रचयिता - प. पू. पंन्यासः श्रीकल्याणबोधिविजयो गणिः (वसन्ततिलका) सज्ज्ञानदीप्तिजननैकसहस्त्रभानो !, सद्दर्शनोच्छ्रयविधौ परमाद्रिसानो ! दुष्कर्मभस्मकरणैकमनःकृशानो !, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥१ ॥ यो वर्द्धमानतपसामतिवर्द्धमान - भावेन भावरिपुभिः प्रतियुध्यमानः । कुच्छद्मलोभरहितो गलिताभिमानो, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥२॥ तेजः परं परमतेज इतो समस्ति, दुर्दृष्टिभिद् तदमिचंदनि चामिदष्टिः । भूताऽपि शैलमनसां नयनेऽश्रुवृष्टिः, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥३ ॥ तुभ्यं नमो भविकपङ्कजबोधभानो ! तुभ्यं नमो दुरितपङ्कविशोषभानो ! तुभ्यं नमो निबिडमोहतमोहभानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥४ ॥ शीलैर्महानसि गुरो ! गुरुताप्रकर्ष ! पापेष्वपि प्रकृतद्रष्टिपियूषवर्ष ! वृत्त्यैकपूतपरिशुद्धवचोविमर्श ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥५ ॥ कल्लोलकृद्वरकृपा भवतो विभाति, देदीप्यते लसदनर्घ्यगुणाकरोऽन्तः । गम्भीरताऽतिजलधे ! नयनिम्नगाधे ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥६॥ सीमानमत्र न गता न हि सा कलाऽस्ति, प्रक्रान्तदिक्सुगुणसौरभ भाग्गुरोऽसि दृष्टाश्च दोषरिपवो दशमीदशायां, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥७ ॥ त्वद्पादपद्मभ्रमरेण देव । श्रीहेमचन्द्रोक्तिकृता सदैव । भानो ! नुतोऽसि बत भावात् त्वत्संस्मृतेः साश्रुससम्भ्रमेण ॥८ ॥ इन्द्रवज्रा )
SR No.022646
Book TitleTilakmanjari Katha Saransh
Original Sutra AuthorN/A
AuthorRavikantvijay
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy