________________
वर्द्धमान वन्दना
हे वीर ! हे गुणनिधे ! त्रिशलातनूज । मज्जन्तमत्र भववारिनिधौ दयालो ! दत्त्वालम्बनमतः कुरु मां विदूरं
मुक्त्वा भवन्तमिह कं शरणं व्रजानि ॥ १ ॥ पापप्रचण्डवन वह्निशमे नदीष्णं
सच्चातकावलितृषापरिहारदक्षम् । सन्मानसस्य परिवृद्धिकरं समन्तात्
तं वीरवारिदमहं विनमामि सम्यक् ॥ २ ॥ आनन्दमन्दिरममन्दमनिन्द्यमाद्यं
वन्दारुवृन्दपरिवन्द्यपदारविन्दम् । कुन्दातिसुन्दरयशो विजितेन्दुबिम्बं
वन्दे मुदा जिनपति वरवीरनाथम् ॥ ३ ॥ गन्धर्वगीतगुणगौरवशोभमानं
सद्बोधदिव्यमहसा महता सुयुक्तम् । वन्दे जिनं जितभवं खलु वर्धमानं संवर्धमानमहिमानमुदारमोदात्
नीहारहारहरहाससहासकारा
देवेन्द्रवृन्द परिवन्दित पादपद्मं
|| 8 ||
संकाशकीर्तिमतिवीरमुदारबोधम् ।
वन्दे विभु ं जिनपति त्रिशलातनूजम् ॥ ५ ॥