________________
जानात्येव मृगः सर्वं, किन्त्वसौ वक्तुमक्षमः । शनैः खजगतिः श्वासभृतस्तामन्वगान्मुदा ॥६९।। गत्वा चैत्ये प्रभोश्चक्रे, सा स्नात्रं विमलाऽम्भसा । राजचम्पकपुष्पाऽऽद्यैः, पूजां वस्त्राऽऽवृताऽऽनना ॥७०।।
मृगोऽपि प्रभुमालोक्य, हर्षाऽश्रुपूर्णलोचनः । मूर्ध्वा ननाम भूपीठाऽऽसङ्गलग्नरजोजुषा ॥७१।। स्वामिप्रणामजातेन, पक्षपातेन सा हृदि । मृगं व्यावर्णयामास, शुभात्मा तिर्यगप्यसौ ॥७२॥ प्राप्ते काले फलाहारं, कर्तुं साऽगाल्लतागृहम् । शनैर्मगोऽपि तत्राऽगात्परित्यक्ततृणाऽशनः ॥७३॥ वराकोऽयं व्यथाक्रान्तो, गृह्णात्याहारमद्य न । इति सा तव्रणे दिव्यौषधीप्रलेपमादधौ ॥७४।। तत्प्रभावावणं रूढं, न्यवर्तिष्ट तथा व्यथा । मृगः सज्जोऽपि नैवाऽत्ति, कत्तृणान्यभिमानतः ॥७५।। ततः सा चिन्तयामास, किमेष न चरत्यहो !? । किमत्र कारणं ज्ञेयं ?, वराको म्रियते क्षुधा ॥७६।। शाड्वलानि समानीय, सा तृणानि ददौ स्वयम् । दृष्ट्याऽपि न मृगोऽपश्यत्पशुभक्ष्याणि तान्यथ ॥७७॥ पूजयित्वा प्रभुं भोक्ष्येऽत्रस्थेत्यभिग्रहग्रहा । पुष्पाण्याहर्तुमारोहत्, साऽन्यदा दूरपर्वतम् ॥७८।। व्याघुट्य सा समायान्ती, मार्गाद्धीनाऽभ्रमच्चिरम् । मौलं न प्राप सा मार्गं, जिनवाक्यमभव्यवत् ॥७९।। सा फलेग्रहिवृक्षेषु, फलानि प्राप्नुवत्यपि । अभिग्रहं स्मरन्ती च, क्षुधिताऽपि जघास न ।।८०।।
३५२
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।