________________
ततो वायुवशाद्बह्वावन्यतो याति सत्वरम् । विमाता तस्य दध्यौ सा, यदुपायोऽस्ति सम्प्रति ॥२०॥ अस्मात् प्रदीपनव्याजान्निक्षिप्याऽग्नि कुटीर । मारयामि सपत्नीजं, मनःशल्यं यदेष मे ॥२१॥ इति दूरस्थया क्षिप्तस्तया वह्निः कुटीरके । स तथैव तपोध्याने, लीनः प्रज्वलितः क्षणात् ॥२२॥
तपोध्यानैकचित्तत्वादविज्ञायाऽनलव्यथाम् । मृत्वा जज्ञे सुतत्वेन, श्रीकान्तस्य त्वपुत्रिणः ||२३|| तदेष पूर्वसंस्काराच्छ्रुत्वा पर्युषणादिनम् । चक्रेऽष्टमतपः स्वेन, पूर्वप्रतिश्रुतं शिशुः ||२४|| मूच्छितत्वान्मृतः कृत्वा, पितृभ्यां निहितो भुवि । यावन्नाऽद्याऽपि म्रियते, तावत् सञ्जीवयाम्यमुम् ॥२५॥ ध्यात्वेति धरणेन्द्रोऽथ, भून्यस्तमेव तं शिशुम् । अरक्षन्निजशक्त्या तु, यथा स म्रियते नहि ||२६|| ततश्च तच्छिशुपिता, श्रीकान्तः पुत्रमृत्युना । जाते हृदयसङ्घट्टे, मृत्युमापत् क्षणादपि ॥२७॥ ततो विजयसेनाऽऽख्यो, राजा विज्ञाय तं मृतम् । अपुत्रमृतसर्वस्वग्रहणायाऽऽदिशन्नरान् ॥२८॥ ते राजपुरुषाः क्रूरा:, श्रीकान्तस्य गृहाद्धनम् । गृह्णन्तो धरणेन्द्रेण, पुरुषीभूय वारिताः ॥२९॥ तैरेत्य कथितं राज्ञो, राजाऽपि स्वयमेत्य तम् । धरणेन्द्रमुवाचाऽऽशु, किं व्याषेधं करोषि भोः !? ॥३०॥ अथाऽऽह धरणेन्द्रोऽपि, राजन् ! गृह्णासि किं धनम् ? । निर्वीरायाः स्त्रिया अस्या, दयाहीनोऽसि किं नृप !? ॥३१॥
३९२
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।