________________
उपवासा मया कार्यास्त्रयः पेयं पयोऽपि न । इति निश्चित्य स स्तन्यं, न पिबति न रोदिति ॥८॥ साऽस्रं मात्रा ततः पत्युः कथिते सोऽप्यचीकरत् । बाले चिकित्सावेदिभ्य, उपचारान् बहूनपि ॥९॥ ततोऽपि नैष जग्राह, स्तन्यं कृततपोविधिः । ततश्च मूर्च्छया बालो, निश्चेष्टोऽभूत् क्रमात् क्रमात् ॥१०॥ मूर्च्छयाच्छन्नजीवं तं मृतमिति धिया शिशुम् । न्यखनन् भुवि तद्वंश्या, निधानमिव दुर्लभम् ॥११॥ इतश्चाऽवधिना पश्यन्, धरणेन्द्रः शिशुं ह्यमुम् । अज्ञासीदस्य वृत्तान्तं, प्रारभ्य पूर्वजन्मनः ॥१२॥ तथाह्ययं भवे पूर्वे, कस्याऽपि वणिजोऽभवत् । सुतत्वेन ततो माता, मृता बाल्येऽस्य दैवतः ॥१३॥ अस्ति तस्य विमाता तु, विमानयति साऽपि तम् । भोजनादिषु स्तोके चाऽपराधे कुध्यति स्फुटम् ॥१४॥ क्रमेण यौवनं प्राप्य, जानन्मानाऽपमानताम् । विमातुर्दुर्वचांस्येष, कस्याऽपि च न्यवेदयत् ॥ १५॥ तेनोचे चेत्तपः सम्यक्कृतं स्यात् पूर्वजन्मनि । आत्मा पराभवस्थानं, कस्याऽपि स्यान्न तत्स्फुटम् ॥१६॥ श्रुत्वेति स यथाशक्ति तपश्चक्रे विनीतवाक् । मानाऽपमानौ सन्त्यज्य, लीनोऽभूत्तपसि स्वयम् ||१७|| एकदा तृणगेहाऽन्तः, स्मरन् पञ्चनमस्कृतिम् । पर्युषणादिनेऽवश्यं, करिष्ये ह्यष्टमं तपः ॥१८॥
इत्येतद्ध्यानवान् यावदस्त्येष तावदन्यतः । अभूत् प्रदीपनं वायुसाहाय्याद्गेहदीपनम् ||१९||
तपसि नागकेतुकथा |
३९१