________________
इत्याकर्ण्य मुनेर्वाचं, दानधर्मोपदेशिनीम् । जग्मुर्विद्याधराः सर्वे, स्वं स्वं स्थानं विहायसा || २४९॥ कामकेतुरपि श्रद्धाबन्धुरः प्रियया सह । प्रपद्य देशविरतिं, पुरे गन्तुं मनोऽकरोत् ॥२५०॥
विद्याधरेण केनाऽपि, दत्त्वा पाथेयमात्मना । तत्पुराऽध्वनि चाऽऽनीय, मुक्तौ तौ चलितौ क्रमात् ॥२५१॥ गच्छन्तौ मार्गकान्तारे, शुश्रुवाते गिरं त्विमाम् । व्यन्तरोक्तां यदत्राऽस्ति, साधुरेको महातपाः ॥ २५२॥
एवमभिग्रहं चक्रे, सोऽथ साधुः सुदुष्करम् । द्विचत्वारिंशता दोषैर्हीनमाहारमत्र तु ॥२५३॥
कान्तारमध्ये चेल्लप्स्ये तदा भोक्ष्यामि नाऽन्यथा । तत्पर्यन्तं करिष्यामि, कायोत्सर्गं सुनिश्चलः ॥२५४॥ युग्मम् ॥
इत्यभिग्रहयुक्तस्य, मासक्षपणपञ्चकम् । बभूव तन्नमस्कर्त्तु, युक्तोऽयं युवयोर्मुनिः ॥ २५५ ॥ कामकेतुरिति श्रुत्वा, किमेतदिति सम्भ्रमी । काञ्चनप्रभया प्रोचे, नाथ ! जानाम्यहं ह्यदः ॥२५६॥ महात्माऽत्र मुनिः कोऽपि, विहिताऽभिग्रहोऽस्ति तत् । कथितो व्यन्तरेणाऽतः, पाथेयैः प्रतिलभ्यते ॥ २५७॥ कामकेतुस्तयेत्युक्तः, स्थाने तत्र विमुच्य ताम् । वने भ्राम्यन्मुनिं कायोत्सर्गस्थितं ददर्श सः ॥ २५८।।
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।
३६९