________________
॥ श्रीचन्द्रप्रभवे नमः ॥ नागेन्द्रगच्छनभोनभोमणि-श्रीमद्देवेन्द्रसूरिसन्डब्धं
चन्द्रप्रभचरित्रम् ।
दृष्टोऽपि हृष्टजनलोचनचन्द्रकान्त-मश्रान्तमान्तरजलाऽऽविलमादधानः । चन्द्रप्रभो जयति चन्द्र इवेशमित्रं, चित्रं पुनः शुभशताय यदष्टमोऽपि ॥१॥ क्षेत्रेऽखिले भरतनामनि बोधिबीजं, वापाय यः किल पुराऽऽदिधुरामुवाह । अंसस्थलस्थितिरसौ किणकालिमेव, केशाऽऽवलिविजयतां वृषभस्य तस्य ॥२॥ आसन्नोऽपि चरन् भवेद्द्विरसनोऽन्येषां भिये किं पुनः, प्रारूढः शिरसीत्यवेत्य सभयं कर्माणि यस्मादगुः । विश्वव्याधिवितानतानवपटुर्विघ्नौघमेघाऽनिलः, श्रीमोक्षाऽम्बुजभृङ्गपुङ्गवगतिः पायात्स पार्श्वप्रभुः ॥३॥ जेतव्यं पवनं स कौशिकफणी दंशच्छलेनाऽपिबत्, तदुःखेन किल व्यलीयत मनो नाऽभून्मनोभूस्ततः । छाद्मस्थ्येऽप्यमनस्कता सुरवधूसन्धाऽनुबन्धोऽथ सः, व्यर्थोऽभूत् सुखमेव यस्य स महावीरोऽस्तु नः श्रेयसे ॥४॥ १. रूढवणपदं-किणः।
२. 'पि वरं भ' हं० सं० उ० । 'पि विभोर्भ' क० । ३. तनोः-सूक्ष्मस्य भावस्तानवम् । ४. अनुबन्धः मेलापकः ।
कथापीठिकावर्णनम् ।