________________
ततः परं बभूवैष, धर्मकर्मरतिः सदा । चकार तीर्थयात्राभिर्जिनधर्मप्रभावनाम् ॥२३६।। रत्नस्वर्णमयान्याशु, स बिम्बान्यर्हतां मुदा । प्रत्यष्ठापयदाचारविदुरो विधिपूर्वकम् ।।२३७।। यस्मादज्ञानता क्वाऽपि, संसारेऽत्र न जायते । प्राणिनां तच्छ्रुतं तेन, चक्रेऽभ्यस्तं स्वनामवत् ॥२३८॥ दयापुरस्सरं धर्मं, श्रद्धां सम्यक्त्वलालिताम् । पूजां जिनेन्द्रपादाऽब्जसपर्यापक्षपातिनीम् ।।२३९॥ भक्ति सुविधिसाधुभ्योऽनुरागं जिनशासने । सामिकेभ्यो वात्सल्यं, पौषधाऽऽदौ व्रतक्रियाम् ॥२४०॥ आत्मनश्च गृहस्थानामन्येषां चाऽभिनन्दयन् । अजापुत्रः स राजर्षी, भूय राज्यं करोत्यथ ॥२४१॥ त्रिभिर्विशेषकम् ॥ क्रमेण व्रतसम्प्राप्तेः, प्राप्य स्वर्गसुखानि सः । चन्द्रप्रभजिनेन्द्रस्य, तीर्थे लब्धा शिवश्रियम् ॥२४२।। इति श्रीदेवेन्द्राऽऽचार्यविरचिते श्रीचन्द्रप्रभस्वामीचरिते पूर्ववंश्यप्रस्तावनापरिच्छेदः प्रथमः समाप्तः ॥ ग्रन्थाऽग्रम् ३१६२ ।।
॥ इति प्रथमः परिच्छेदः ॥
दुष्यन्त-शकुन्तलाकथा ।
२७१