________________
यदा कदाऽपि हंसी सा, नारीभूता घटिष्यते । भविता सा कलत्रं मे, नाऽन्येत्यङ्गीचकार सः ॥२७१॥ ततश्च हंसर्योर्वृत्तं, लेखयित्वा पटेषु सः । मादृशामर्पयामास, द्रष्टुं देशाऽन्तरेषु ताम् ॥२७२।। राजाऽऽदेशाद्धमाम्येवं, ग्रामे ग्रामे पुरे पुरे । चित्रदर्शनाच्चेत् कोऽपि, स्मरेज्जन्माऽन्तरं निजम् ।।२७३।। किरूपः ? किङ्गुणः ? कीदृक्कुलः ? किम्पुरुषव्रतः ? । जयराजः स ते स्वामीत्यप्राक्षीत्तं नृपाऽङ्गजा ॥२७४।। जयराजः स्वयं स्वस्य, गुणानाख्यातुमक्षमः । परं तदनुरोधेन, सोऽचीकथद्यथातथम् ॥२७५।। श्रुत्वेति राजपुत्री सा, दत्त्वाऽस्मै हारमात्मनः । सार्धं ललितया सौधं, जगामाऽनुपलक्षिता ॥२७६।। पूर्वजन्मप्रियं पूर्वप्रेमाऽभ्यासादृशोः पुरः । पश्यन्ती तत्कथावार्ताविनोदेनाऽनयन्निशाम् ॥२७७।। विभातायां विभावर्यामनङ्गसुन्दरी ततः । वेत्रिण्या भूभुजे सर्वं, तवृत्तान्तं व्यजिज्ञपत् ।।२७८॥ साङ्काश्यनगराऽधीशं, जयराजाऽभिधं नृपम् । अनङ्गसुन्दरी स्वेन, गत्वा तत्र वरिष्यति ॥२७९॥ श्रुत्वेति मुदितो राजा, मुख्याऽमात्यमथाऽदिशत् । सह गत्वा त्वया तत्र, कुमारी पर्यणाय्यताम् ॥२८०।। हस्त्यश्वस्वर्णसामग्रीमाधायाऽथ स मन्त्रिराट् । पितृभ्यां स्वयमादिष्टां, पुरस्कृत्य नृपाऽऽत्मजाम् ॥२८१।। प्रति साङ्काश्यमागन्तुमिच्छद्भिः पथिकैः श्रितः । चचालाऽश्वक्षुरक्षुण्णधूलिधूसरिताऽम्बरः ॥२८२॥
२३०
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।