________________
सं० १२९९ मां नागेन्द्रगच्छना वीरसूरि पछी परमार वंशीय वर्धमान-चंद्र-देवअभयदेव-हेम-धनेश्वर-विजयसिंहसूरिना शिष्य वर्धमान सूरिए अणहिल्ल नगरे अंबड मंत्रीना नानाभाई दंडनायक आह्लादननी प्रार्थनाथी वासुपूज्यचरित्र संस्कृतमा ५४९४ श्लोकप्रमाण रच्यु (प्रकाशित जैनधर्मप्रसारक सभा नं. १८ भावनगर, वेलणकरनी सूची नं. १७७२) तेनी प्रशस्ति मूळ संस्कृतमां तेना अनुवाद सहित नीचे आपीए छीए:
इति दण्डाऽधिपतिश्रीमदाह्लादनसमभ्यर्थितश्रीविजयसिंहसूरिशिष्यश्रीवर्धमानविरचिते श्रीवासुपूज्यचरिते आह्लादनाऽङ्के महाकाव्ये महोदयलब्धिवर्णनो नाम चतुर्थः सर्गः । ग्रं० १३६९ उभयं ५४५१ ॥ संपूर्णमिदं भूर्भुवःस्वस्त्रयीपूज्यस्य श्रीवासुपूज्य[स्य]चरितम् ।।
श्रीनागेन्द्रमुनीन्द्रगच्छतिलकः श्रीवीरसूरिर्बभौ यस्माद्बोधमवाप्य मण्डलपतिर्जज्ञे यतिश्चच्चिगः । तच्छिष्यः परमारवंशविशदः श्रीवर्धमानः प्रभुः तत्पट्टोदयपर्वतैकतरणिः श्रीरामसूरिस्ततः ॥१॥ चन्द्रः कुवलयोद्बोधे चन्द्रसूरिरभूद्गुरुः । ततः शमसुधाऽम्भोधिदेवसूरिमुनीश्वरः ॥२॥ बभूवाऽभयदेवाऽऽख्यः सूरि रिगुणाद्भुतः । श्रीहेमसूरिर्यव्याख्यां व्याचख्यौ भूभुजा समम् ॥३॥ श्रीमान्धनेश्वरः सूरिरथाऽजनि मुनिप्रभुः । रूपे वचसि च प्राप जयपत्रं जनेषु यः ॥४॥ गुरुर्विजयसिंहोऽभूद्यश्चक्रे प्रियमेलकम् । सर्वत्र स्वसरस्वत्या विद्वज्जनमनोऽम्बुधौ ॥५॥ निस्तन्द्रोऽजनि देवेन्द्रसूरिय॑न्मुखमण्डपे । विललास कवित्वश्रीः साकं वक्तृत्वसम्पदा ॥६॥ सूरेविजयसिंहस्य शिष्यो गुर्वाऽऽज्ञया ततः । सूरिः श्रीवर्धमानोस्मिन्गच्छे यामिकतां दधौ ॥७॥
चन्द्रप्रभचरित्रम्, पूर्वप्रकाशननी प्रस्तावना ।