________________
ग्रन्थसमर्पणम्
पुण्यं मनस्तथा वाणी पुण्या, काया तथा तथा । येषां पुण्यात्मनां तेषां ज्ञानयोगवतां सताम् ।।१।। दिवंगतानां पूज्यानां महर्षीणां महात्मनाम् । निम्रन्थानां तथाऽनेकग्रन्थसंशोधकानां च ॥२॥
आगमप्रभाकराणां श्रुतेन शीलेन शोभमानानाम् । मुनिपुण्यविजयनाम्नां करयुगकमलेऽर्ण्यतेऽथ मया ॥३॥
उपकारगुणान् स्मृत्वा, पुनः पुनर्वन्दनावलों कृत्वा ।
ओंकारश्रीनाम्न्या निर्ग्रन्थिन्या सुभावेन ॥४॥ पुण्यप्रभावप्रख्यापकं च बहुविधगुणोपदेशकरम् । दानादिधर्मगर्भ जिनदत्तकथानकं चेदम् ॥५।। कुलकम् ।।