________________
वामनरूपधारिणा जिनदत्तेन नृपादिरञ्जनम्
૨૭
कृत्वा तन्मस्तके स्वहस्तं न्यस्य तारणी विद्या जप्ता । ततः सा शिला विद्याबलेन ऊर्ध्व - मुत्पतिता सती नभोमण्डले इतस्ततो भ्रमति चाट्टहासं मुञ्चति च । इति दृष्ट्वा सर्वैः सभालोकैभयभ्रान्तैः पलायितम् । राज्ञोक्तम्- - वयं त्वत्कौतुकानां घ्राणाः, परं भ्रमन्तीं शिलामाकशादुत्तारय । वामनेनोक्तम् - राजन् ! मा भैषीः, मच्छिक्षिता शिला तव किमपि न करिष्यति । इत्युक्त्वा राजादेशात् शिला स्वस्थाने निवेशिता । तुष्टेन च राज्ञोक्तम्अहो ! वाञ्छितं वरं याचस्व । वामनः प्राह - हे देव ! तिस्रः स्त्रीर्यावन्नालापयामि तावत् तव प्रसादं न गृह्णामि ।
इतश्च सर्वसभासहितो राजान्वितो वामनो धर्मशालां गतः । तत्र धर्मध्यानस्थिता राजाद्यागमनज्ञानात् सविशेषं संवृताङ्गीरघोदृष्टीः शान्तचित्ता अपवरकमध्यस्थाः स्त्रीवलोक्य, बहिरागत्य स्थितानां ‘ कथमयं वामन एता ईदृशीर्जल्पयिष्यति : ' इति राजादीनां कौतुकं जातम् ।
--
इतश्च वामनेव मध्ये गत्वा ज्येष्ठा विमलमतीः सम्भाषिता - हे भद्रे ! मया साकं कथं न जल्पसि ? किं तदपि तव विस्मृतं यत् यस्मिन्नवसरे मयैकादश द्रव्यकोटयो हारितास्तदा त्वया पञ्चदशकोटिप्रमाणः कञ्चुको द्यूतकारेभ्यो दत्तः, अहं तेभ्यस्तमड्डाणकमर्पयित्वा गृहमागतः ' इति श्रुत्वा सा विमलमतीरुत्फुल्ललोचना मुखमूर्ध्वकृत्य सम्मुखं विलोकयति स्म 'अहो वामन ! त्वं कथमेनं वृत्तान्तं जानासि स क्वास्ति जिनदत्तः ? ' इति तयोक्ते 'अधुनाऽहं व्यग्रेोऽस्मि, कल्ये कथयिष्यामि इति भणित्वा निर्गतः सः । राजादयो धूनिताः, परं केनापि न ज्ञातम् यद् • इयं कथं जल्पिता ? इति । ततः सर्वेऽपि स्वस्व
,
-
स्थानं गताः ।
अथ द्वितीयदिने प्राग्वद् राजादिभिः सहाऽऽगत्य वामनेन द्वितीया श्रीमती अधोभ्रवं वीक्षमाणा जल्पिता - हे सुन्दरि ! त्वं मया सह कथं नाऽऽलपसि ? त्वया सर्वं पूर्वानुभूतमेकस्मिन् भवेऽपि कथं विस्मारितम्, यदा धवलगृहमध्येऽहमागतः तदा दोलाखाट्वाया उत्तीर्य मत्सम्मुखमागत्य प्रीत्याऽऽलापं कृत्वा त्वं निद्रायिता, अथ मया सर्प निगृह्य तव सौख्यमुत्पादितमिति त्वमपि स्मर । अथ सा समुत्थाय तं विकस्वरनयनाभ्यां निरीक्षते स्म, 'अहो वामन ! समुद्रमध्ये क्षिप्तो जिनदत्तः क्वास्ति ?, कथं तद्वृत्तान्तश्च त्वद्गोचरो जातः ?, त्वं च कः ? इतीदं सर्वमसम्भाव्यं मां ज्ञापय ' इति तयोक्ते ' अद्याहं कार्यातुरोऽस्मि, कल्ये कथयिष्यामि ' इत्युक्त्वा धर्मशालाया बहिरागत्य राजादीनामग्रे तेनोक्तम्- • भो ! द्वितीयाऽद्य जल्पिताऽस्ति । इति श्रुत्वा चित्ते चमत्कृतास्ते सर्वे स्वस्थानं गताः । पुनः