________________
उत्तीर्णसमुद्रस्य जिनदत्तस्य विद्याधरनृपान्तिकगमनादि २१ 'सर्पजग्धानां रज्जुभयं भवति' इति स क्षणं विलम्बते । तैरुक्तम् – मा भैषीः । तव धीराऽस्तीत्यादिवचनैविश्वस्तः फलकादुत्तीर्य जिनदत्तस्तटमायातः । ततोऽनन्तरं ते राजान्तिके गत्वा वर्धापनिका गृहीता। ततो राज्ञा मुदा सुखासनं प्रेषयित्वा स महामहेनाऽऽनायितः । राज्ञा तस्य विनयादिगुणः कुलीनत्वं ज्ञातम् । यतः -
आचारः कुलमाख्याति, देशमाख्याति भाषितम् । सम्भ्रमः स्नेहमाख्याति, वपुराख्याति भोजनम् ॥९०॥
तथा
हंसा गति, पिकयुवा किल कूजितानि, नृत्यं शिखी, परमशौर्यगुणं मृगेन्द्राः ।
सौरभ्य-शैत्यललितं मलयादिवृक्षाः, कैः शिक्षिता ?विनयकर्म तथा कुलीनाः ॥९१॥
ततो राज्ञा पुत्र्यै कथापितम् त्वत्पुण्याकृष्टः समुचितो वरः प्राप्तः, तव प्रतिज्ञा पूर्णाऽस्ति । अथ 'मम मनोरथाः सेत्स्यन्ति ' इति श्रुते तस्या राजसुतायाः वामनयनाङ्गस्फुरणेन हर्षोत्कर्षोऽजनि । पुनरित्थं तस्या विवेकिन्या मनसि विचारो जातः – “यन्मया पूर्वमन्य. च्चिन्तिम् , देवेन चान्यत् कृतम् , अतः कर्मगतिर्दुर्लध्या । यतः--
उदयति यदि भानुः पश्चिमायां दिशायां, प्रचलति यदि मेरुः, शीततां याति वह्निः ।
विकसति यदि पद्मं पर्वतारो शिलायां, तदपि न चलतीयं भाविनी कर्मरेखा ॥९२॥ अहो ! महासमुद्रोल्लङ्घनकरो नरोऽत्र समेष्यतीति स्वप्नेऽपि चिन्तितं नासीत् , तदपि विधिविलसिताद् जातम् । यदुक्तम् -
यन्मनोरथशतैरगोचरं, न स्पृशन्ति कवयो गिराऽपि यत् ।
स्वप्नवृत्तिरपि यत्र दुर्लभा, हेलयैव विदधाति तद् विधिः ॥९३॥" ततस्तया भोगफलं कर्म विचार्य परिणयननिषेधो न कृतः । अनिच्छन्त्याऽपि तया स्ववाचाङ्गभयात् परिणयनमनुमतम् ।
अथ राज्ञा ज्योतिषिका आहूताः, तै ढं विलोक्य लग्ननिर्णयः कृतः । ततो वरः शृङ्गारितः परिणयनाय चटितः । तदा लोकास्तस्य भाग्यसौभाग्यप्रकर्ष विलोक्य परस्परं जल्पन्ति" तत् सत्यं यच्छास्त्र प्रोक्तम् , यथा