________________
औदत्तश्रेष्ठिकृतो जिनदत्तस्य समुद्रप्रक्षेपः इति सदुःखं चलनमनुमत्य सुवर्ण-रत्नादिसारबहुवस्तुभिर्भूतं प्रवहणं दत्त्वा श्रीमत्या सह राज्ञा जिनदत्तः प्रस्थापितः ।
[श्रीमतीरूपमुग्धौदत्तश्रेष्ठिकृतः समुद्रे जिनदत्तप्रक्षेपः, श्रीमतीविलापश्च]
यावता प्रवहणान्यर्धमार्गे गतानि तावता श्रीमतीरूपं बहुद्रव्यं च दृष्ट्वा रागान्धस्य लोभान्धस्य च श्रेष्ठिनो दृष्टिश्चलिता, यतः -
रागंधो' मोहंधो कज्जाकजं न जाणई जीवो ।
धत्तरभामिओ इव सव्वं पिच्छइ सुवन्नमहो! ॥६६॥ ततः क्रूरकर्मणा पापिना श्रेष्ठिना केनापि च्छलेन विश्वास्य मध्यरात्रौ समुद्रमध्ये कुमारः क्षिप्तः । ततो निर्घातं श्रुत्वा 'किमपि पतितं पतितम् ' इति जनकलकलो जातः ।
तस्मिन्नवसरे श्रीमती पृच्छन्ती स्वपति समुद्रमध्ये पतितं जनमुखात् श्रुत्वा 'हा नाथ ! हा नाथ !' इति तारं रुरोद। इत्थं बहु विलप्य ' हा श्वशुर ! हा तात ! पुत्रं समुद्रमध्ये मुक्त्वा क्व यासि ?' इति श्रेष्ठिन सा बभाषे । ततः श्रेष्ठी जगौ - एवं मा ब्रूहि, मम दासोऽयम् , मया सह भोगान् भुझ्व, त्वं मम गृहसर्वस्वस्वामिनी भवेति। ततः सा दध्यौ – “हहा ! अस्यैव दुष्टस्य चेष्टितमिदं सम्भाव्यते, किमन्यथाऽमुष्य मुखादीदृशी वाक्यपद्धतिनिर्गच्छति ? तथा सत्यमिदं जातं यद् मनुष्यकूटस्य लकुटशुषिरत्वस्य च पारो नास्ति, अन्यच्चोक्तम् -
मायावंतह माणुसह, किमइ पतीज ण जाइ ।
नीलकंठ महुरं लवइ, सविस भुयंगम खाइ ॥६७॥ तथाऽस्य परस्त्रीरतस्य श्रेष्ठिनो जीवितं धिगस्तु, यदुक्तम् -
वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसञ्चितं व्रतम् ।
वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि शीलस्खलितस्य जीवितम् ॥६८॥ तथा
अप्पु धूलिहिं मेलियं, सयणहं दीधी छार ।
पगि पगि माथाढांकगुं, जिणि जोई परनार ॥६९॥ ____ 1. रागान्धो मोहान्धः कार्याकार्य न जानते जीवः, धत्तरभ्रामित इव सर्व पश्यति सुवर्णमहो !2. मायावतो मनुष्यस्य कथमपि विश्वासो न याति, नीलकण्ठो मधुरं लपति सविषं भुजङ्गमं खादति ॥ 3. आत्मा धूलो मेलितः, स्वजनेषु = स्वजनोपरि दत्तं = क्षिप्तं भस्म, पदे पदे शिरःप्रच्छादनम् , येन दृष्य परनारी ॥