________________
जिनदत्तकथानकम्
इत्यादि दीनवाक्यानि श्रुत्वा तस्य करुणापरिणामेन तदुःखं प्रतिबिम्बितम्, यतः
विरला जाणंति गुणे, विरला पालंति निद्धणे नेहं ।
विरला परकज्जकरा, परदुक्खे दुक्खिया विरला ॥४१॥ तथा च -
' सज्जनस्य हृदयं नवनीतं ' गीतमत्र कविभिन तथा तत् ।
अन्यदेहविलसत्परितापात् सज्जनो द्रवति, नो नवनीतम् ॥४२॥ ततस्तेन चिन्तितम् -
— अस्थिरेण शरीरेण स्थिरं धर्म समाचरेत् ।
अवश्यमेव यास्यन्ति प्राणा प्रापूर्णका इव ।।४३॥' परोपकृतिनिरतेन तेन प्रोक्तम् - त्वं स्वस्था भव, तव पुत्रस्य स्थानेऽहं यास्यामि । तयोक्तम् – वत्स ! नैवं स्यात् , त्वमपि कस्या अपि मातुः पुत्रः, तस्या अपि दुःखं मम तुल्यम्, आत्मनिष्ठया परनिष्ठा ज्ञायते, यतः -
सुखी न जानाति परस्य दुःखं, न यौवनस्था गणयन्ति धर्मम् ।
आपद्गता निष्करुणा भवन्ति, आर्ता नरा धर्मपरा भवन्ति ।४४।। एवं श्रुत्वाऽपि स्वप्रतिपन्नवचनभङ्गभयात् साहसात् परोपकारकरणात् स्वकायनिरपेक्षत्वाच्च जिनदत्तो महाऽऽग्रहेण तां मालिक स्त्रियं मानयित्वा पुष्पाण्यादाय जिनमर्चयित्वा सज्जो भूत्वा स्थितः ।
तावदारक्षका ‘रे गृहान्निस्सर निस्सर' इति हक्कयन्तः समेताः । तदा स सलीलमुत्थाय खड्गं गृहीत्वाऽग्रेऽभूत् । एवं धीराणामुचितम् , यतः –
जीयं कस्स न इट्ट ? , कस्स न लच्छी य वल्लहा होइ ! । अवसरवडियाण पुणो दुन्नि वि धीराण न हु किंचि ॥४५॥
तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवितम् ।
विरक्तस्य तृणं नारी, निरीहस्य तृणं नृपः ॥४६॥ 1. विरला जानन्ते गुणान् , विरलाः पालयन्ति निर्धने स्नेहम् , विरलाः परकार्यकराः, परदुःखे दुःखिता विरलाः ।। 2. जीवितव्यं कस्य न इष्टम् ?, कस्य न लक्ष्मीश्च वल्लभा भवति ?; अवसरपतितानां पुनः द्वे अपि धीराणां न खलु किञ्चित् ।।