________________
[१३] राज्याहारनिवृत्तिमप्यथ परे देवार्चनं सन्ततम् केचित् संयम संग्रहावधि निजाभीष्टार्थ संवर्जनम्
वसन्त ०
इत्थं प्ररोप्य मनुजेषु हि बोधिबीजम् सूरीश्वरो निगमवारिधिपारदृश्वा । धर्माम्बुवर्षपविधौ जलदो मुनीशैः सार्धं पुरात्प्रचलित शरदत्यये वै ॥ १०३ ॥
देवाण मोगरपुराधिपतीविनम्रान् जीवादिरक्षणपरं विविधं जिनोक्तम् । सुश्राव्य धर्ममतुलं दयया परीतम् चक्रे ह्यसावखिल सत्व परार्थदक्षः ॥ १०४ ॥
तस्मादनेकनगरीयसुसज्जनानाम्
सिद्धान्त सिद्धविविधामृततत्त्वबोधात् । प्रस्थाय सूरिसुरराम् बहुधोपकारम् कुर्वन् ययौ च वटपद्रपुरं विशालम् ॥ १०५ ॥