________________
[२२] व्याख्यानं जिनशासनस्य रुचिरं सुश्रावयामास यः भूलोकं किमु तस्य नाकगमने शोको न हि व्याप्नुयात् तस्माद्धार्बटवानरेति विबुधः पीयूषकल्पं रसं पीत्वा जैनिजमेतिनामकमलो जैनाध्वसंसूचकम् । ग्रन्थं यत्कृपया समारचितवान् सयुक्तिजालैर्वृतम् भूलोकं किमुतस्य नाकगमने शोको नदि व्याप्नुयात् तद्व्याख्याश्रवणेन पूतमतयः दुष्टान्नि जान्दुर्मतान् उज्झित्वा रुचिरां जिनोक्तिसरणिं नैके जनाः प्राप्नुवन्। इत्थं यो बहुधा तनोज्जिनमतं द्विपान्तरेषु ध्रुवम् भूलोकं किमु तस्यनाकगमने शोकोनदि व्याप्नुयात् आचार्याख्यपदोत्सवः समजवल्य ब्ध्यं कजुहायने ऊर्जे मास्यसिते दले शुचितिथौ शत्रुंजये पावने । विंशत्येद्धसहस्त्रपूर्ण जनताविश्राणितं तत्पदं लेने यः किमुतस्यनाकगमने शोको नहि व्याप्नुयात्
वसन्त०
विश्वोपकारकरणे सुदृढ प्रयत्नम् सूरीश्वरं दिविषदं जनता विदित्वा ।