________________
(६) वंशस्थ ०
यदैव वैराग्यमशेषवस्तुनि शिशोश्च यूनः स्थविरस्य वापि हि । तदैव सर्व परिदाय निर्ममः परित्रजेच्चाऽऽत्महिताय सत्वरम् ॥२३३॥ शार्दूल० द्रव्यादेरनुकूलताऽपि नितरां वर्वर्ति सम्प्रत्यपि नो विच्छित्तिमयिष्यते बहुतरे काले गमिष्यत्यपि । तस्मादत्र समागता मुनिवरा एतद् ब्रुवन्ति स्फुटं प्रव्रज्यां ददितुं सदा गुरुवराः सन्ति स्वतन्त्रा ध्रुवम्
॥२३४॥
वसन्त ०
यत्पणीयजनता प्रथयाञ्चकार श्रीसङ्गसम्मतिमृते महितोऽपि साधुः । दीक्षां प्रदातुमिह नैव भवेत्समर्थः
शास्त्रप्रमाणविधुरं तदखीकमेव
ईदृग् जिनाऽऽगमविरुद्ध मनिज्ञसंघो नाऽऽविष्करोति कथमप्यतिमूढवद्धि ।
॥२३५॥